________________
Shri Mahavir Jain Aradhana Kendra
गणधरसा
ईशतकम्
॥ १५ ॥
www.kobatirth.org
जनः = लोकस्तेन प्रणतम् । अपहस्तितो = गलहस्तितः संसारो=भवो येन तं तथा । प्रत्यासन्नमुक्तिगमनत्वात्तादृशं सारम् = उत्कृष्टं सूरिम्=आचार्यम् । पुनः कीदृशम् ? कनिष्ठं=लघीयांसं गुरुभ्रातरमिति गम्यते । कस्य ? इत्याह- तस्य । तस्य कस्य ? इत्याह येन विहिता = चक्रे संतुलना=सम्यक्स्वशक्तिकलना । क्व १ इत्याह- जिनकल्पे= "मणपरमोहिपमुहाणि "इत्यादिपूर्वगाथाव्याख्यातकिश्चित्स्वरूपे । किंविशिष्टे ? समतिक्रान्तेऽपि = अतीतेऽपि श्रीजम्बूस्वामिनि व्यवच्छिन्नेऽपि । अनिगूहिते = अनपते वीर्यशक्ती येन तेन तथा, तत्र वीर्यम् = आन्तरं मानसिकं बलं, शक्तिः = शारीरं बलं यथोत्साहेनेत्यर्थः । केन ? इत्याह- आर्यमहागिरिणा = आर्यमहागिरिनानाऽऽचार्येणेति गाथायुगार्थः ।। २० ।। २१ ।।
आर्यमहागिरिनानामाचार्याणां त्रिंशद्वर्षाणि ३० गृहस्थपर्यायः, चत्वारिंशद्वर्षाणि ४० व्रतपर्यायः, त्रिंशद्वर्षाणि ३० यौगप्राधान्यम्, सर्वायुर्वर्षशतं १०० मास ५ दिनपञ्चकं ५ चेति ॥
तथा आर्यसुहस्तिसूरीणां त्रिंशद्वर्षाणि ३० गृहस्थपर्यायः, चतुर्विंशतिवर्षाणि २४ व्रतपर्यायः, पचत्वारिंशद् वर्षाणि ४६ युगप्रधानपदं वर्षशतं १०० मासपङ्कं ६ दिनपङ्कं ६ च सर्वायुरिति ॥
एभ्योऽनन्तर शास्त्रान्तरे श्रुतावतारादौ शतवर्षायुर्गुणसुन्दराचार्यादष्टोत्तरशतवर्षायुष्कस्कन्दिलाचार्यादयोऽन्येऽपि युगप्रवरा यद्यपि प्रतिपादितास्तथापि तेषां तथाप्रसिद्धेरभावादत्र तत्र भगवद्भिस्ते नोपन्यस्ता इति संभाव्यते ।
अथार्थसमुद्राचार्यार्यमङ्गुसूर्यार्यसुधर्माचार्यान् एकयैव गाथया नमस्कुर्वन्नाह -
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्री आर्य
महागिरि
सुहस्तिदृष्टान्तः ॥
॥ १५ ॥