________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अजसमुदं जणयं, सिरीइ वंदे समुद्दगंभीरं । तह अज्जमंगुसूरिं, अजसुधम्मं च [ सुं] धम्मरयं ॥ २२ व्याख्या – अहम् आर्यसमुद्राचार्यं वन्दे =नमस्करोमि । कीदृशम् ? श्रियो = ज्ञानादिलक्ष्म्या जनकम् = उत्पादकम् । शेषविशेषणपरिहारेण साभिप्रायमेतद्विशेषणं यतः समुद्रः श्रियो = लक्ष्म्याख्यसुतायाः जनक:- पिता भवतीति ध्वन्योऽर्थः । पुनः किम्भूतम् १ समुद्रवद् गम्भीरम्=अलब्धमध्यं, तथा च गाम्भीर्य लक्षणम्
" यस्य प्रभावादाकाराः, क्रोधहर्षभयादयः । बहिःस्था नोपलभ्यन्ते, तद्गाम्भीर्यमुदाहृतम् ॥ १ ॥ "
तथा आर्यमरिं च= पुनरार्यसुधर्म्म ' वन्दे । किं विशिष्टम् ?' सुधम्मरयं ' शोभनधम्मँ = क्षान्त्यादिदशप्रकारे वृषे रतं= सस्पृहम् । एतद्विशेषणमेतयोर्द्वयोरपि [सु ]धर्म्मरतत्वात्संगतमेवेति गाथार्थः ॥ २२ ॥
एषां त्रयाणां चरितं कापि विशिष्टं न दृष्टम् ।
आर्यसुधर्माचार्याणामष्टादश १८ वर्षाणि गृहस्थपर्यायः, चतुश्चत्वारिंशद्वर्षाणि ४४ व्रतपर्यायः, चतुश्चत्वारिंशद्वर्षाणि ४४ युगप्रवरपदं सर्वायुः पटुत्तरं शतं १०६ मासपञ्चकं ५ दिनपञ्चकं ५ चेति ॥
अथ भद्रगुप्तगणनायकमभिवादयन्नाह -
मण-वयण कायगुत्तं तं वंदे भद्दगुत्तगणनाहं । जइ जिमइ जई जम्मंडलीए तो मरइ तेहिं समं ॥२३॥
१ सुघम्मरयं इति टीकायां लिखितत्वात् ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir