________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धानानुपानहत्व-धराशयन-प्रहरद्वयरजनीस्वाप-शीतोष्णसहन-षष्ठाष्ठमादिबाह्यतपोऽनुष्ठानाल्पोपकरणधरण-पिण्डविशोधननानाद्रव्याद्यभिग्रहकरण-विकृतिसंत्यागैकसिक्थादिपारणक-मासकल्पविहार-कायोत्सर्गविधानकषायपरिहारादिका संयमश्रीः, अपरा चतुर्दशपूर्वाध्ययना-ध्यापन-सम्यक्तत्त्वालोचना-संख्येयभवकथनानेक मन्यजनबोधनप्रमुखा ज्ञानलक्ष्मीः,तयोश्च चरणज्ञानश्रियो शरणं गृहम् । मत्तगजगमनंम्मदोन्मत्तद्विपगतिमिति गाथापश्चकार्थः ।। १५-१९ ।।
श्रीस्थूलभद्रस्य युगप्रवरस्य गृहस्थपर्यायस्त्रिंशद्वर्षाणि० ३०, व्रतपर्यायश्चतुर्विंशतिवर्षाणि २४, युगप्रधानत्वं पञ्चचत्वारिंशद्वत्सराणि ४५, सर्वायुर्नवनवति ९९ वर्षाणि पश्च ५ मासाः पञ्च ५ दिनानि चेति ।
अथार्यमहागिर्यार्यसुहस्तिनौ श्रीस्थूलभद्रशिष्यो विशेषणविशेष्यद्वारेणानुसरन् गाथाद्वयमाहविहिआ अनिगृहविरिअ-सत्तिणा सत्तमेण संतुलणा। जेणजमहागिरिणा, समइकंते विजिणकप्पे॥ तस्स कणिटुं लटुं, अजसुहत्थि सुहत्थिजणपणयं । अवहत्थिअसंसारं, सारं सूरिं समणुसरिमो॥२१॥ ____ व्याख्या-आर्यसुहस्तिनं गणधरं समनुसरामः सम्यग् एकाग्रचित्ततयाऽनुगच्छामः, सम्यगनुगमनं चाराध्यस्यैव विधीयते न त्वनाराध्यस्य तत आराधयाम इति संटङ्कः । कीदृशम् ? सुखार्थिजनप्रणतं शातैषिलोकप्रणिपतितम् , अथवा शोभना:= भद्रजातीया हस्तिनो-गजा येषां ते सुहस्तिनः, ते च राजानः सम्प्रतिराजप्रमुखाः, जनावराजवर्गपौरजनपदाद्या लोकास्तैः प्रणतम् । यदि वा शुभं श्रेयः पुण्यं धर्ममिति यावत्, तद् अर्थयन्ते ये ते शुभार्थिनो भव्याः सुखार्थिनो वा, तल्लक्षणो
For Private and Personal Use Only