SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणधरसा. द्धशतकम् । | भद्र ॥१४॥ ... (५) १०) (1 ) AAAAAAAA परं भगवान् स्नेहपाशैन बद्धः, किन्तु सा प्रहतप्रभैव कृतेति । तथा येन-आशु-शीघ्र 'साविआ' श्राविता धर्म-18|श्रीस्थूलमिति गम्यते श्राविका कृता । कीदृशेन ? चरणकरणसहितेन-चरणं च करणं च चरणकरणे ताभ्यां सहितेन=समन्वितेन, तत्र चरणं सप्ततिभेदं तद्यथा ४ चरित्रम् ।। " वय-समणधम्म-संजम,-वेयावच्चं च बंभ-गुत्तीओ । नाणाइति तब-कोहनिग्गहाई चरणमेयं ॥ १॥" क्रमेण पश्च-दश-सप्तदश-दश-नव-त्रिक-द्वादश-चतुर्भेदैः सप्ततिसंख्यम् । करणमपि" पिंडविसोही समिई, भावण पडिमा य इंदिअनिरोहो । पडिलेहण गुत्तीओ, अभिग्गहा चेव करणं तु ॥१॥" इदमपि चतुः-पश्च-द्वादश-द्वादश-पश्च-पञ्चविंशति-त्रि-चतुर्भिः प्रकारैः सप्ततिभेदम् । स्वपरयो आत्मेतरयोहितकृते-गुणाय स्वर्गापवर्गार्थमित्यर्थः । तस्यामेकस्यां प्रतियोधितायां समस्तचतुर्दशरज्वात्मके लोकेऽमारिघोषणाकरणात्स्वर्गापवर्गयोरात्मसात्कृतत्वे आत्मनो हितं संपद्यते । यदा तु रथिकारादेः परस्य सा प्रतिबोधमाधास्यति तदा परहितत्वं संपत्स्यते । एवं तस्या अपि स्वपरहितत्वमवसेयमित्यभिप्रायः। सुकृतयोगतः पुरोपचितपुण्यसंपर्कात् योग्यताम् उचितत्वं दृष्ट्वा-विज्ञायेत्यर्थः । १७ । १८ । तं श्रीस्थूलभद्रश्रमणं वन्दे स्तवीमीति सम्बन्धः । 'अपच्छिमं' ति न विद्यते पश्चिमो यस्मादिति अपश्चिमः । केषाम् ? चतुर्दशपूर्विणाम्-उत्पादपूर्वादि-चतुर्दशपूर्वाणि सूत्रतोऽर्थतश्च कण्ठाग्रे विद्यन्ते । येषां ते चतुर्दशपूर्विणस्तेषाम् । चरणज्ञानश्रीशरणम्-इह श्रीशब्दस्य प्रत्येकाभिसम्बन्धाच्चरणश्रीनिश्रीश्च, तत्राद्या-लोचवि-17 ॥१४॥ -69C%-43006 For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy