________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपयौवनादिगुणशालिनी, येन तत् व्यामूढो जनो गृहगतः-* यदि कोशासङ्गमः कथञ्चिदेकदापि स्यात्तदा खजीवितसाफल्यं मन्यामहे, धन्यास्ते य एतस्याः कटाक्षलक्षीभूताः, ये चानया साई हसन्ति रमन्ते च ' इत्यादि चिन्तयन् सदाऽवतिष्टेति, सत्पथातिक्रमश्चायम् । दीपशिखापक्षे स्वप्रभा-खदीप्तिम् । सततं सर्वदा खकार्ये=सुरभिलक्षपाकतैलाभ्यङ्गोद्वर्त्तनविलेपननानाभक्तिकर्णाट-लाटा-न्ध्र-द्रविड-टक्क-काश्मीर-जालन्धर-सपादलक्ष-मालव्य-गूर्जरत्रादिनानादेशीयवसनविच्छित्तिपरिधानहारार्द्धहारकटककुण्डलादिरत्नाभरणभूषाकरण-नानाप्रकारसुस्वादुतिक्तशालनकोपयोजनभोजनप्रान्तताम्बूलास्वादन| नानालप्ति-भङ्गीप्रवरगीतकलाचित्रवर्णकविचित्रकलाभ्यसन-बकुल-विचिकिल-मालती-शतपत्रिकादिमालाशीर्षकण्ठारोपणगन्धग्रहण-नर्मचस्तरी विस्तारण--शृङ्गाररसोत्कटनाटिकाकाव्यदोहकश्रवण--पठन--सुरतव्यापारा-दर्शमण्डलमुखावलोकनकेशकलापसमारचन-नखसंस्कारण-केशधूपन-स्वर्णचक्कलकमसूरकाद्युपवेशन-गण्डोपधानगल्लमसरिकोपशोभितसुखपल्यका. रोहण-परचित्तोपलक्षण-पररञ्जन-परद्रव्यापहरणादिलक्षणे लग्ना-दत्तावधाना केवलं तदेकचित्तेत्यर्थः। दीपशिखापक्षे च 'सकन्जलग्ग' ति सकजलं अग्रम्-उपरितनभागो यस्याः सा तथा । कीदृशी कृता? इत्याह-प्रहतप्रभा निर्मथितरूपयौवनसौन्दर्यादिदर्पमाहात्म्या सा सुकोशारूपदीपशिखा स्निग्धापि अत्यन्तस्नेहलापि, दीपशिखापक्षे च अरूक्षा । 'बहुसिणेहभरियाए ' इति पूर्वगाथोदितपदेनैव स्निग्धत्वे प्रतिपादिते यदत्र पुनः 'स्निग्धापि'-इत्यभिधानं तत् , प्रियादिस्नेहस्य प्रतिवन्धकारणत्वप्रख्यापनार्थ, तथा चोक्तम्
" भजासिणेहनत्थाए नथिया सयणरज्जुपडिबद्धा । कम्मजुगसमकता, भवारहढे भमंति जिआ ॥ १॥"
For Private and Personal Use Only