________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandie
AHARAS434
अथार्यसंभृतविजयदीक्षितं श्रीभद्रबाहुदत्तपूर्ववाचनं श्रीस्थूलभद्रं गाथापचकेन स्तुवन्नमस्कुर्वश्वाहसो कहं न थूलभद्दो,लहइ सलाहं मुणीण मज्झमि।लीलाइ जेण हणिओ, सरहेण व मयणमयराओ॥ कामपईवसिहाए, कोसाए बहुसिणेहभरियाए । घणदडजणपयंगाए, जीए वि जो झामिओ नेय।१६।। जेण रविणेव विहिए इह,जणगिहे सप्पहं पैयासंती।सययं सकज्जलग्गा,पहयपहा सा सणिद्धा वि॥१७॥ जेणासु साविआ साविआ,कया चरणकरणसहिएणं।सपरेसिं हिअकए सुकयजोगओ जो तमपच्छिमं चउद्दस-पुवीणं चरणनाणसिरिसरणं । सिरिथूलभद्दसमणं, वंदे हं मत्तगयगमणं ॥१९॥ ____एतासां व्याख्या-सा प्रसिद्धः कुमुदकुमुदबान्धवहिमहारशरदभ्रस्वकीर्तिसुधाधवलितब्रह्माण्डमण्डपः कथं केन प्रकारेण स्थूलभद्रः-शकटालविपुलकुलनभस्तलमण्डनाखण्डचण्डगभस्तिः श्रीमदार्यसंभृताचार्यवर्यशिष्योत्तंसः श्रीभद्रबाहुस्वामिमुक्ताफलस्वच्छगच्छधुराधरणधवलधौरेयो न लभते=न प्राप्नोति श्लाघां-वर्णनीयतां प्रशंसामित्यर्थः, मुनीनां साधूनां मध्ये=3 अन्तरे ?, अपि तु लभत एवेत्यर्थः । येन लीलया हेलया अवगणनया हतः परासुतां प्रापितः शरमेणेव अष्टापदतिर्यग्विशेषेणेव मदन एव-कन्दर्प एव मृगराजा पश्चाननः । तथा श्रीस्थूलभद्रश्रमणमहं वन्दे इति सम्बन्धः । कीदृशम् ? मत्तग१ 'पहासंती' इति पाठान्तरम् ।
45
For Private and Personal Use Only