________________
Shri Mahavir Jain Aradhana Kendra
गणधरसा
र्द्धशतकम् ।
॥ १२ ॥
www.kobatirth.org
ततस्तस्य भगवतो ज्ञानामृतसागरस्य सुखसंभूतिभाजनत्वे किमस्ति वाच्यमिति गाथार्थः ॥ १३ ॥ श्रीयशभद्राचार्याणां गृहस्थपर्यायो २२ द्वाविंशतिवर्षाणि, व्रतपर्यायश्चतुर्दश १४ वर्षाणि, युगप्रधानपदं ५० पञ्चाशद् वर्षाणि सर्वायुष्कं ८६ षडशीतिवर्षाणि मास ४ दिवस ४ चतुष्कं च ।
तथा श्रीयशोभद्राचार्यैः स्वर्जग्मुभिः स्वपदे निवेशितौ चतुर्दशपूर्वधरौ श्रीभद्रबाहु - श्रीसंभूतिविजयाचार्यों, तत्र संभूयमितिविजयमर्द्धगाथयाऽनुस्मृत्य श्रीभद्रबाहुस्वामिचतुर्दशपूर्वधरं स्वचेतोगोचरीकुर्वन्नाहसुगुरुतरणीइ जिणसमयसिंधुणो पारगामिणो सम्मं । सिरिभदबाहुगुरुणो, हिअए नामक्खरे धरिमो ॥ व्याख्या - शोभनो ज्ञानदर्शनचारित्रालङ्कृतः, स चासौ गुरुव-धर्माचार्यः, स चात्र भगवान् आर्यसंभूतविजयः स एव तरणी = नौर्यानपात्रमित्यर्थस्तया हेतुभूतया जिनसमयसिन्धोः = अर्हत्प्रवचनार्णवस्य पारगामिनः = पारदृश्वनः साङ्गचतुर्दशपूर्व धारिण इत्यर्थः, सम्यक् = निष्कौटिल्यं शुद्धभावेनेत्यर्थः श्रीभद्रबाहुगुरोर्हृदये = चित्ते नामाक्षराणि= अभिधानवर्णान् धारयामि= आरोपयामि अविच्युत्या स्मरामीति यावदिति गाथार्थः ॥ १४ ॥
अत्र संभूतविजयाचार्याणां द्विचत्वारिंश ४२ द्वर्षाणि गृहस्थपर्यायः, चत्वारिंश ४० द्वर्षाणि व्रतपर्यायः, अष्टौ वर्षाणि ८ युगप्रधानपदं, सर्वायुर्नवति ९० वर्षाणि मास ५ दिन प पञ्चकं च ॥
_der श्री भद्रबाहु स्वामिनः पञ्चचत्वारिंश ४५ द्वर्षाणि गृहस्थपर्यायः, सप्तदश १७ वर्षाणि व्रतपर्यायः, चतुर्दश १४ वर्षाणि माससतकं दिनसप्तकं च । एतयोः सतीर्थ्यत्वादेकत्र सर्वायुर्मणनमिति ||
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्रीयशोभद्राचार्यः
श्रीभद्र
बाहु:श्रीसंभूति
विजयश्व ॥
॥ १२ ॥