________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
84545CANCEC
ज्ञातसिद्धान्ततत्त्वम् । अयमभिप्राय:--येन पुण्यात्मना “विभूसा इत्थिसंसग्गी, पणीयं रसभोयणं । नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥ १ ॥ अंगपञ्चंगसंठाणं, चारुल्लविअ पेहिअं। इत्थीणं तं न निज्झाए, कामरागविवणं ॥२॥" इत्यादिसिद्धान्त(दशवैकालिकसूत्र)वचनानां रहस्यं सम्यग् ज्ञातं भवति परिणमितं च, नासौ भवानन्दिभिः स्यादिभिः कथश्चिदपि वश्चयते, अतो मुणितप्रवचनसद्भावमिति हेतुगर्भ विशेषणमवगन्तव्यम् । तथा येन समसाई समतिक्रान्तानि गतानि, कानि ? मनःपरमावधिप्रमुखाणि, तत्र पदैकदेशे पदसमुदायोपचारात् 'मण' इत्युक्ते मनःपर्यायज्ञानं गृह्यते, तत्र मनःपर्यायज्ञानमर्द्धतृतीयद्वीपसमुद्रान्तर्वर्तिसञ्जिमनोगतद्रव्यालम्बनम् । 'परमोहि ' त्ति परमावधि:-परमः उत्कृष्टः स चासौ अवधिश्चेति परमावधिः, यत्रान्तर्मुहूर्त्तानन्तरं केवलज्ञानमुत्पद्यते, मनःपरमावधी प्रमुखेआदौ येषां पुलाकलब्ध्याहारकलन्धि-क्षपकश्रेणिप्रमुखाणामुत्तमवस्तूनां तानि मनःपरमावधिप्रमुखाणि, तथा चोक्तमागमे
"मण १ परमोहि २ पुलाए ३, आहारग ४ खवग ५ उवसमे ६ कप्पे ७ ।
संयमतिअ ८ केवल ९ सिज्झणा १० य जंबुम्मि वुच्छिन्ना ॥१॥" अथ पुलाकः, एतदर्थानुवादिनी गाथेयम्"धन्नमसारं भन्नइ, पुलायसदेण तेण जस्स समं । चरणं सो हु पुलाओ, *लद्धीसेवाहि सो य दुहा ॥१॥" तत्र लब्धिपुलाको यथा* लब्ध्यासेवनाभ्याम् ।
SCIENCESCHECRECRUARGARCANADA
%A5
25
For Private and Personal Use Only