________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मणधरसाईशतकम्।
श्रीजम्बूस्वामिचरितम् ।।
॥ ७॥
KARANASANCHAR
कथम्भूतम् ? पञ्चमस्थानस्थितम् , पञ्चमस्थाने इन्द्रभूत्यादेः स्थितं व्यवस्थितम् । अथवा अनघत्वादेव पश्चमस्थानं पश्चम| गतिस्तत्र स्थितं मुक्तिप्राप्तमिति । एतच्चरितमपि गणधरचरित्रे ज्ञेयं, विशेषस्त्वयम्-" परिनिव्वुआ गणहरा, जीवंते नायए नव जणा उ । इंदभूई सुहम्मो य, रायगिहे निव्वुए वीरे ॥१॥" इति गाथाद्वयार्थः ॥ ६॥ ७॥
अधुना सुधर्मस्वामिपट्टोदयाचलचूलावलम्बिरविबिम्बप्रतिबिम्ब श्रीजम्बूवामिनं(गणधरं) नमस्कुर्वन् गाथात्रितयमाहतारुण्णे विहणो तरलतार-अद्धच्छिपिच्छरीहिंमणो।मणयं पिमुणिअपवयण-सब्भावं भामिअं जस्सा
मणपरमोहिप्पमुहाणि, परमपुरपस्थिएण जेण समं ।
समइकंताणि समग्गभव्व-जणजणिअसुक्खाणि ॥९॥ ६] तं जंबुनामनामं, सुहम्मगणहारिणो गुणसमिद्धं । सीसं सुसीसनिलयं, गणहरपयपालयं वंदे ॥१०॥
___ व्याख्या-जम्बूनामेति नाम यस्य स जम्बूनामनामा, तं वन्दे प्रणिपतामीति सम्बन्धः । यस्य भगवतस्तारुण्येऽपि3 | यौवनेऽपि आस्तामन्यावस्थायामित्यपि शब्दार्थः, नो नैव तरले यौवनोद्भेदवशोल्लसितमन्मथाभिलाषाच्चटुले तारके-कनीनिके ययोस्ते तरलतारके, ते च ते अर्द्धं च अविकसिते च । एवंविधे ये अक्षिणी-लोचने ताभ्यां प्रेक्षन्ते-विलोकन्ते इत्येवंशीलास्तरलतारकार्दाक्षिप्रेक्षिण्यस्ताभिस्तरलतारकार्दाक्षिप्रेक्षिणीभिर्वधूभिरिति गम्यते मनो हृदयं मनागपि ईषदपि तिलतुषत्रि| भागमात्रमपि आस्तां समस्तमित्यपि शब्दार्थः, भ्रामितं क्षोभितं चालितमित्यर्थः, किमिति ? यतो मुणितप्रवचनसद्भाव |
For Private and Personal Use Only