________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
है तं तिहुअणपणयपया-रविंदमुद्दामकामकरिसरहं । अणहं सुहम्मसामि, पंचमठाणट्ठिअं वंदे ॥७॥ |
___व्याख्या-तं सुधर्मस्वामिनं वन्दे नमस्करोमीति सम्बन्धः । येन किम् ?, धवलायितम् , धवलो-वृषभस्तद्वदाचरितम् । | क?, जिनेन रागादिदोषद्वेषिजैत्रेण वर्द्धमानामिधानेन मुनिपतिना=चतुर्दशसहस्रवाचंयमदानदुर्ललितदक्षिणहस्तेन समर्पितो | न्यस्तः अशेषः समस्तो योऽसौ तीर्थस्य सङ्घस्य प्रवचनस्य च भरो-भारः शिरःस्कन्धादिवहनयोग्यः पदार्थ इति यावत् , तस्य धारण मर्यादया व्यवस्थापन सम्यगविच्युत्या हृदयेन बहनं च-जिनवर्द्धमानमुनिपतिसमर्पिताशेषतीर्थभरधरणं, तत्र । अयमभिप्रायः-किल श्रीवर्द्धमानस्वामिना सत्सु श्रीगौतमादिगणभृत्सु योग्येष्वपि आयुर्दाघीयस्त्वादिविशेषयोग्यतामाकलय्य पञ्चमस्थानवर्तिसुधर्मस्वामिनि समग्रसङ्घप्रवचनभारः समारोपितः, तत्र चारोपितप्रवचनसङ्घमाग्भारे धवलधौरेयायितं सुधर्मस्वामिना । तं त्रिभुवनप्रणतपदारविन्द विष्टपत्रयनतक्रमकमलम् । पुनः कीदृक्षम् ? उद्दामा उच्छृङलो यः काम एव%3D मदन एव मदोन्मत्तत्वात्करी हस्ती तत्र सरमः अष्टापदस्तम् । त्रिभुवनप्रणतपदारविन्दत्वे हेतुरिदं विशेषणम् , अतश्च हेतुहेतुमद्भावेनेदं विशेषणद्वयम्-यस्त्रिभुवनप्रणतपदारविन्दः स च उद्दामकामकरिसरभ एव स्यादिति । अथ 'कामकरिसरभम्' | इत्यत्र सत्यपि हर्यक्षे सरभोपादानं तत् कदापि कर्यपि हरिं पातयति परं न सरभमिति तद्ग्रहणम् । पुनः किंविधम् ?, न विद्यते अर्घ-पापं यस्य तम्-अनघम् । अत्र च पापोच्छेदः पुण्योच्छेदस्योपलक्षणं ततश्चोभयक्षये 'अनघ 'मित्यनेन पुण्यापुण्यक्षयान्मुक्तिरिति [घोतितम् ] । अत्रापि हेतुहेतुमद्भावोऽनुसरणीय:-यत एव उद्दामकामकरिसरममत एवान, सकलक्लेशभूरुहमूलत्वाद्रागस्य, ततश्च तन्निर्मूलने सुलभैव निक्लेशलेशपदावाप्तिरतः अनघ-मोक्षपदप्राप्तमित्यर्थः । पुनः
For Private and Personal Use Only