________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
सुवर्णादिकं गर्भस्थिते यस्मिन् सिद्धार्थभवने, इति व्युत्पत्त्या यथार्थाभिधानस्तस्य वर्द्धमानस्य, षष्ठीलोपः प्राकृतत्वात् । किं विशिष्टस्य ? बराणि सर्वोत्तमानि यानि ज्ञानचरणदर्शनानि तान्येव मणयो-रत्नानि तेषां जलनिधेः समुद्रस्य, यथा समुद्रः पुष्पकादिचतुर्दशाना लोकप्रसिद्धानां, तथाऽन्येषां वजेन्द्र-नील-मरकतादीनां रत्नानां भवत्युत्पत्तिस्थानम् , एवं वर्द्धमानोऽपि ज्ञानादिप्रभवः, ततोऽन्यत्र सकलज्ञानाद्यसद्भावात् । अत्र च ज्ञानानन्तरं दर्शनस्य क्रमात्पाठे प्राप्ते पश्चात्पाठो गाथाभनभयात् । पुनः किम्भूतस्य ? त्रिभुवनप्रभोः त्रिलोकीनायकस्य । पुनः किं विशिष्टस्य ? प्रतिहतशत्रो समूलकापङ्कषितकर्मवैरिणः । विशेषणत्रितयमध्यादाद्यविशेषणेन ज्ञानादिरत्नैः समुद्रसारूप्येण स्वयमनिष्ठितरत्नाकरत्वेन सेवकलोकरत्नवितरणेन च स्वार्थपरार्थसम्पत्ती दर्शिते भवतः । कश्चित्स्वपरार्थनिरतोऽपि नीचतरमात्रस्याधिपतिनं भवति, मगवतस्तु न तागुरूपत्वमिति द्वितीय विशेषणमाह-'त्रिभुवनप्रभोः' इति, अनेन च जनाराध्यत्वमाह । एवंविधोऽपि कोऽपि निहतान्तरशत्रुर्न भवति तत्राह-' प्रतिहतशत्रोः,' एतेन च तृतीयविशेषणेन मुक्तिकान्ताश्लेषयोग्यत्वमाह । एवं | सर्वोत्कृष्टस्य गुरोः शिष्यभावे श्रीगौतमस्य विशेषनमस्कारार्हतामाचष्टे । ननु यदि 'घृतं सुरभि ' तदा गोमयस्य किमायातम् ?, यदि गुरु नादिपवित्रगुणपात्रं ततश्च किमेतावता स्तब्धत्वादिदोषदुष्टस्य शिष्यस्याराध्यता स्यात् । तद्योपोऽपि तादृशस्तदा कथङ्कारं नमस्कारं न स्वीकुर्यात् , ? मैवं, नहि केवलालोकालोकितसमस्तवस्तुजाताः भगवन्तः अयोग्याय दीक्षा | ददति तस्माचद्धस्तपादीक्षितत्वादवश्यं नमस्कृत्य एवायमिति । किञ्च-कथमेष नमस्करणीयः स्याद् यः समस्तश्रुतपारगश्छन्नस्थस्य स्वात्मनि केवलिनस्तुलामवस्थापयति ? इत्याह- संखाईएवि भवे' इत्यादि, सङ्ख्यातीतानपि-गणनातिक्रान्ता
For Private and Personal Use Only