________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
CREATEGOSAROCHAR
तस्याश्च रत्नमालाया इव रत्नान्यजितादयोऽवयवा भवन्त्येव तत्कोव विसंवादः १ अलमतिप्रसङ्गेन । अथवा आदिशब्दो व्यवस्थाओं यथा-"ब्राह्मणादयो वर्णाः ब्राह्मण-क्षत्रिय-वैश्य-शूद्ररूपेण व्यवस्थिताः" इति, एवमत्रापि-अजितादयो वीरपर्यन्ताः क्रमेण लब्धव्यवस्थास्तीर्थकृतस्तेषामजितादिजिनेन्द्राणाम् । कीदृशानाम् ? 'जणिआणंदाण पणयपाणीणं' | प्रणतप्राणिनां नम्रभव्यलोकानां जनितः उत्पादितः आनन्दा-प्रमोदो यैस्ते जनितानन्दास्तेषाम् । यदि वा-'जणिआण'ति || जनिर्जन्म तं द्यन्ति खण्डयन्तीति जनिदास्तेषां जनिदानाम् । तथा 'दाणपणयपाणीण'ति, दाने वितरणे प्रणयः प्रीती रसो ययोस्तौ दानप्रणयौ तादृक्षौ पाणी-हस्तौ येषां ते दानप्रणयपाणयस्तेषाम् । यदि हि दानरसिककरा=स्तीर्थकरा न भवेयुस्तदा कथमत्यन्तदीक्षाभिमुखा अपि वर्ष यावदवतिष्ठेयुः ? सकललोकस्य च दानमपि दद्युः, इति । अनेन विशेषणद्वयेन द्वयं प्रतिपादितं भवति, तथाहि-'जनिदाना' इत्यनेन सकलकर्मनिर्मूलनक्षमक्षेमकारिनित्यानन्दज्ञानशक्तिनिधानमोक्षसौख्यप्रापकत्वम् , 'दानप्रणयपाणीनां'-इत्यनेन चैहिकसमग्रसातसम्पत्प्रदत्वमर्हतामावेदितम् । एतेन 'अनन्तगुणरत्नरत्नाकराणां तीर्थकराणां किमर्थमेतद्विशेषणद्वयम्' एतदपि नोचं निरस्तम् । अथ 'थुणिमो' इत्यस्य क्रियापदस्य पश्चानिर्देशप्राप्तावपि यत्पूर्व-| भणनं तत्स्तुतिस्तवनस्य महाफलप्रदर्शनार्थम् । 'स्तवै' इति वर्तमानकालभणनाद्भविष्यत्कालकथने माभृत्प्रमादस्य क्षणमप्यवकाश इत्यभिप्रायः। ननु स्तवनं पदवाक्यैः सद्गुणोत्कीर्तनरूपं, ततः स्तवै' इत्यभिधानस्य स्तवनवचनाप्रतिपादनादाकाश[कृशम् ] कुशेशयकृतशेखरवन्ध्यातनयसाम्यमेव समेति !, मैवम् , स्तवनं हि भावतः श्लाघनरूपं, श्लाघा च मानसिकी वाचिकी कायिकी चेति विधा, सा च त्रैवापि भगवतः सूत्रकारस्य वरीवर्त्तते, तथाहि-प्रथमतो मनोव्यापारसंभवान्मानसिकी तावत्स्फुटै
*4054-%ARSHA
N
For Private and Personal use only