________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त
अजितनाथात्पार्श्वनाथपर्यन्ता गणधराः॥
गणधरसा-ट द्भक्तिविशेषसंश्लेषतरलितत्वानिदैन्यं सत्वसारं मना=आन्तरो भावो यस्यासौ अदीनमनाः । अजितादिजिनेन्द्राणां जनितानईशतकम् । न्दानां प्रणतप्राणिनाम् । आह-ननु अजितः आदिर्येषां ते अजितादयो जिनेन्द्राः, इत्यत्रादिशब्दस्यानेकार्थत्वात्तथाहि
___सामीप्ये च व्यवस्थायां, प्रकारेऽवयवे तथा । आदिशब्दं तु मेधावी, चतुर्वर्थेषु लक्षयेत् ॥ १ ॥ इति । ॥४॥
| तदिह कस्मिन्नर्थे प्रवर्त्तमानस्य ग्रहणम् ?, उच्यते-(१) न तावत्सामीप्यार्थस्य ग्रहणं, तद्ब्रहणे हि यथा 'ग्रामादौ घोषः' इत्यत्रोपलक्षणीभूतत्वाद्रामस्य ग्रामसमीपो देशः परिगृह्यते, एवमत्रापि सामीप्यार्थादिशब्दोपादाने अजितस्वामिसमीपवर्त्तिनां जिनेन्द्राणां सम्बन्धिनां गणधराणां गुणगणौघं स्तवीमीत्ययमर्थः स्यात् , न चैष घटते, न चैकस्य तीर्थकृतः सन्निधावपरस्य विद्यमानत्वेन सिद्धान्ते प्रतिपादनात् । तथा चाश्चर्यदशकमध्ये "कण्हस्य अवरकंका" इत्यनेन कृष्णस्य द्वीपान्तरगमने दूरादुत्तमपुरुषद्वितयपताकादर्शन-शङ्खशब्दश्रवणमात्रस्यापि महाश्चर्यरूपत्वं प्रतिपाद्यते । आस्तां तावत्-सामीप्यं । (२) व्यवस्थार्थोऽपि नैव, व्यभिचारात् , अजितस्वाम्यादयो हि जिनाः क्रमसिद्धा एव किं तत्र व्यवस्थया? । (३) प्रकारार्थोऽपि न युक्तिसीमन्तिनीसीमन्तकमाणिक्यमालिकाकल्पत्वमुपकल्पयति, तथाहि-प्रकारः सादृश्यं, तच्चाजितसंभवादीनां परस्परं च्यवनविमाननगरीजनकायेकविंशतिस्थानादिस्थानसदृश्यं विभ्राणानां कथं नाम संभवेत् ?, यच्चैकसादृश्यमहतामुपगीयते तच्चतुस्त्रिंशदतिशय-पञ्चत्रिंशद्वचनातिशयशक्त्याद्यपेक्षमवगन्तव्यम् । (४) अवयवार्थे तु आदिशब्दे गृह्यमाणे नास्ति विवादः,
अजित एवादिरवयवो येषां जिनेन्द्राणामिति । ननु अत्र पक्षे महान् विसंवादः, नहि जिनानामजितादयोऽवयवा भवितुमर्हन्ति, | अवयवा हि पाणिपादादय एव संगच्छन्ते , सत्यं, 'जिनाना'मित्यन्तवृत्त्या भगवतः सूत्रकारस्य त्रयोविंशतिकाभिप्रेता, |
4-0%ACHAROGRAM
॥
४
॥
For Private and Personal Use Only