________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधरस्तुतिपूर्वकं श्रीयुगप्रवरागमगणधरस्तवनं नव्यानां भव्यानां शुद्धश्रद्धाभिवृद्धये समृद्धये समस्तशान्तिसिद्धये च व्यधायीति सर्व समञ्जसम् । अत्र चाभिमतदेवतानमस्कारो नास्तीति नाशङ्कनीयः, श्रीरिषमसेनगणधरस्यैवाधुना सिद्धस्वरूपतया गुरोरपीष्टदेवतात्वेन विवादास्पदत्वाभावात् , तनमस्कारकरणस्य भावमङ्गलत्वमव्याहतमेव । अभिधेयं चात्र गणधरयुगप्रधानस्तवनद्वारेण तत्स्तुतिलक्षणं साक्षादेवाभिहितम् , अभिधेयस्य च प्रयोजनाविनाभावात्प्रयोजनाक्षेपो निष्प्रयोजनार्थप्रतिपादने सतां सचहानि प्रसङ्गात् , यतः
" मुखमस्तीति वक्तव्य-मित्यसम्बद्धभाषिणः । जडाः सन्तस्तु वैयर्थे, वाङ्मुद्रामुद्रिता इव ॥१॥" प्रयोजनं च द्विविधं भवति-अनन्तरं परस्परं च, द्विधापि द्वैधं कर्तृश्रोत मेदात, कर्तुस्तावदन्तरप्रयोजनमेतत्प्रकरणार्थश्रोतृणां भव्यानां नवनवश्रद्धाकरणं, श्रोतुश्चानन्तरप्रयोजनं प्रकरणार्थपरिज्ञानं, परम्परं तु द्वयोरपि निःश्रेयसावाप्तिः । तथा गणधरयुगप्रधाननामस्तवनोत्कीर्तनेन संसूचित एवास्य प्रकरणस्योपायोपेयलक्षणः सम्बन्धस्तथाहि-इदं प्रकरण विवक्षितगणधरयुगप्रधाननामतच्चरिताधिगं उपायः, गणधरनामचरिताधिगमश्चोपेयमिति । अयं च प्रकरणः श्रोतगतः उपायोपेयसम्बन्धः, कर्तृश्रोतगतस्तु भव्यश्रद्धाभिवर्द्धनमुपायः, परमपदावाप्तिस्तूपेयमित्युपायोपेयलक्षणः, सम्बन्धो बोद्धव्यः ।
अथ कथमेष ऋषभसेनः समभृत् ? इति तच्चरित्रं लिख्यते
समुत्पन्नकेवलज्ञानस्य श्रीऋषभस्य पादमूले श्रीऋषभसेनो भरत-तनयो दीक्षामुपादाय गणभृन्नामकर्मोदयावाप्तगणधरपदोऽन्यदा भगवता समादिष्टः
SAGAR
For Private and Personal Use Only