________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
गणधरसाईशतकम् ।
नरीनृत्यमानमण्यादर्शमण्डलकल्पकपोलपीनं पुरः प्रवाद्यमानामन्दानन्दकन्दलिततौर्यिकतूर्यवर्यभृरिभेरीमाङ्कारस्फारधीरगम्भीरनादसंमर्दोद्बोधवधिरीकृतदिग्चक्रवालं निर्मालिन्यस्वाजन्यसौजन्यरङ्गरनितान्तरङ्गसङ्गचङ्गस्वात्मबहिरङ्गबहुजनसमूहपरि- ऋषभसेनावारविशालं बहुविधालप्तिलिप्तवण्ठीकृतकलकण्ठकण्ठाकुण्ठकण्ठकन्दलीघोलनाप्रकारसारसारङ्गीनवनवभङ्गीगीतप्रगीतारोपिततु-18| परनामम्बुरुवरूप्यसरूपाग्रेसरगायनं नितान्ताभ्रान्ताश्रान्तोपयुक्तकर्पूरयुक्तताम्बूलरागरक्ताधरौष्ठपल्लवप्रदत्तविद्रुमदूरदेशान्तरपलायनं पुण्डरीककञ्चनकाञ्चनगौरवर्णवर्ण्यमभ्यर्णे बहिनिर्यान्तं निर्वयं कश्चित्कञ्चन तन्मानवं पप्रच्छ-भो स्वच्छबुद्धे ! विधेहि निष्कौतुकं गणधरः॥ मामकं मनः, कथय क एष निश्शेषपुरुषशिम्शेखरः। स प्राह-अयममुकस्यात्मजः । ततोऽसौ चिन्तयति-अहो! धन्योऽसौ यस्येदृशं पुत्ररत्नमजनि, नूनं स एव श्लाघासंभारचारिमाणमश्चतीत्येवं पुत्रादपि जनकोऽतिप्रकृष्टत्वमश्नुते । एवमत्रापि विनेयविनेयस्यैतद्विशेषणद्वयविशिष्टत्वे प्रतिपादिते सति भगवतोऽतिशयेन प्रकर्षः ख्यापितो भवति, अतो रिषभसेनगणभृत एवैतद्विशेषणद्वयं विधीयमानयुक्तिसीमन्तिनीसीमन्तकरत्नाभरणभूषकत्वतुलामाकलयति । अथैतद्विशेषणद्वयं डमरुकमणिन्यायेनोभयोरपि संबध्यते, यथा-कीदृशस्य रिषभजिनेन्द्रस्य ? प्रथममुनिपतेः आद्यमुनिनायकस्य, तथा कीदृशस्य रिषभसेनगणधारिणः १ गुणमणिरोहणगिरेः, भगवदाद्यमुनिपतेश्चेति, एतच्च प्राक् प्रदर्शितमेव । यदि वा रोहणगिरेरिति रिषभजिनेन्द्रस्य विशेषण विधेयं, प्रथममुनिपतेरिति रिषभसेनगणधारिण इति । अपरस्त्वाह-ननु भो! संविग्नपूर्वमुनिसंविधानकप्रतिपादनरूपं ऋषिमण्डलस्तवमस्त्येव ततः किमनेन पिष्टपेषणकल्पेनापरेण गणधरसार्द्धशतकाभिधानप्रकरणकरणेन?, तदसत् , अभिप्रायापरिज्ञानात् , तत्र हि सामान्येनैव पूर्वर्षिचरितोत्कीर्तनमात्रमाविश्वके, अत्र तु अनेन भगवता प्रकरणकारेण प्रायेण ||॥२॥
For Private and Personal Use Only