________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4515
स्तेषां रत्नाचला, अयमर्थः-यथा रोहणगिरि नाप्रकारदारियापहार-दुःखन्यक्कार-दौर्भाग्यतिरस्कार-विपत्सम्भारवैमुख्यकार-श्वासकाशप्रकाशाङ्गहासज्वरभगन्दराऽशोऽतीसारादि-रोगातङ्कनिःशङ्कप्रचारप्रदार-प्रमुखसुखसन्दोहप्ररोहद्गुणनिधानप्रधानानणुमणीनामाकरः, तथा ज्ञानदर्शनचारित्रव्रतषद्कादि षट्त्रिंशिकानवक-देश-कुल-जातिरूप-चातुर्यौदार्य-धैर्यादि क्षमा-मार्दवाद्यखिलविमलगुणकलापस्य भगवान् श्रीऋषभसेनगणधरः प्रादुर्भावस्थानमिति । ___अथ 'गुणमणिरोहणगिरेः 'प्रथममुनिपतेः' इति-विशेषणद्वयं कथं श्रीनाभिकुलकरकुलकमलमार्तण्डमण्डलस्य प्रणम्रकम्रम्रदीयस्तरविस्तरोल्लासविलासस्फारतारहारप्रकटमुकुटकुण्डलाद्यखण्डालङ्कारमण्डिताखण्डलस्य भूरिभूरितरनव्यनव्यतरभव्यभव्यतरजनमनश्वारुवचश्चातुरीरोचिष्णुचन्द्रिकाचोरचकोरताराधिपस्य भगवतः श्रीप्रथमजिनाधिपस्य न संगच्छते ?, सत्यम् , अत्यन्तपवित्रामृतकरकरनिकरमित्रचित्रचित्तचमत्कृतिकृद्विचित्रानन्तगुणरत्नरत्नाकरस्य, अश्यामाश्यामतरप्रवरप्रचुरौषधिमन्त्रादिमाहात्म्यतारतम्याश्वाशुतरग्रसनग्रसननिष्णातातुच्छ मूर्छन्मोहाविरलगरललहरीसमुद्रावसप्पिणीकालकलाकलिता समपरीक्षदीक्षज्ञानदिवाकरस्य भगवतः किं नाम न संगच्छते, किन्तु भगवच्छिष्यस्य तादृग्विशेषणविशिष्टत्वे भगवतः समस्तप्रकृष्टान्तपरमकाष्ठनिष्ठत्वं प्रतिष्ठितं स्यात् । तथा च तात्कालिककालिकाकलङ्कविकलविमलसुधाकरकौमुदीधवलबहलपिच्छिलसुधाधवलितधवलगृहात् पृथुलाशिथिलमणिखण्डमण्डितोण्डदण्डिकाभिरामकामकामिनीरामरूपरम्या ग्राम्यकाम्या कल्पविकल्पाभरणकल्पनाऽप्सरायमाणा तन्द्रायमाणानिष्पुण्यजनदुर्लभवल्लभान्त शोभितभागीरथीतीरतरङ्गभङ्गुरभङ्गीविभ्राजदच्छाच्छपट्टांशुकप्रच्छादनपटाच्छादितपुष्पप्रकरसुरभितसुखस्पर्शसुखासनासीनं भूरिभास्वररत्नमण्डिताखण्डितरुक्मकुण्डलकान्तिलहरी
ॐ545CALC
For Private and Personal Use Only