SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra मणघरसा शतकम् | ॥ १ ॥ www.kobatirth.org पर्वतोतुङ्गशृङ्गाल्लुठन्तमवस्थापयति = मर्यादया वर्त्तयतीति यावत् तच्छीलो गणधारी । सहेनेन = स्वामिना वर्त्तते इति सेनो, रिषभेण = युगादिदेवेन कृत्वा सेनः = सनाथो रिषभसेनः, स चासौ गणधारी तस्य पादान् = चरणान्, गुरोः पूज्यत्वाद् बहुवचनं, प्रणिपतामि-प्रणमामि प्रशब्दः प्रकर्षार्थद्योतकस्तेन प्रकर्षेण त्रिकरणविशुद्ध्या, न तूपहाससाध्वसोल्लासादिपूर्वम्, यत उपहासपरोऽपि नमस्कारः संभवति यथा " नमस्यं तत्सखिप्रेम, घण्टारसितसोदरम् । क्रमक्रशिमनिःसार, - मारम्भगुरुडम्बरम् ॥ १ ॥ " इति । कीदृशान् पादान् ? इत्याह- अनघान् - निष्पापान् निर्दूषणान् सकल निर्मलशतपत्र- छत्रचामर - मकर- द्वीप-सामुद्रादिसल्लक्षणोपलक्षितानित्यर्थः कीदृक्षस्य श्रीरिषभसेनगणधारिणः ? प्रथममुनिपतेः कस्य सम्बन्धिनः प्रथममुनिपतेः १, तत्राह - रिषभजिनेन्द्रस्य, रिषभो वृषभस्तदङ्कयोगान्मातुस्तदादिस्वमचतुर्दशकदर्शनाद्वा रिषभनामा सप्तमकुलकराङ्गजः । जिना:रागद्वेष कषायेन्द्रियपरीषहोपसर्गाष्टप्रकार कर्म्मजेतृत्वात् ते च सामान्यकेवलिनोऽपि भवेयुः = तद्द्व्यवच्छेदायै = तत्स्वाम्यसंसूचनाय च इन्द्रग्रहणं, ततश्च रिषभश्वासौ जिनेन्द्रश्चेति कर्म्मधारयः, तस्य रिषभजिनेन्द्रस्य । पुनः किंविशिष्टस्य श्रीरिषभसेनगणधारिणः ? गुणमणिरोहणगिरेः=गुण्यन्ते=अभ्यस्यन्ते स्वीक्रियन्त ऐहिकामुष्मिक सुखजिघृक्षुभिर्मुमुक्षुभिरिति गुणा:= ज्ञान-दर्शन- चारित्राणि, एतत्ग्रहणे च शेषाणां गणधर गुणपत्रिंशिकानव कोक्तानामपि परिग्रहोत्र ज्ञेयः, गुणा एव मणय: = पर्वतोद्भवानि रत्नानि गुणमणयस्तेषां रोहणागिरिः- रत्नभूधरस्तस्य गुणमणिरोहणगिरेः । यदिवा - औदार्य - गाम्भीर्य - स्थैर्यधैर्य - सौजन्यशालिन्य-कौलीन्यादि - क्षमा मार्दवाऽऽर्जव - मुक्ति तपः- संयम - सत्य - शौचा-ऽऽकिञ्चन्य-ब्रह्मचर्यादयो गुणा For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्री ऋषभसेना परनाम पुण्डरीक गणधरः ॥ ॥ १ ॥
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy