________________
Shri Mahavir Jain Aradhana Kendra
गणधर
सार्द्ध
शतकम् ।
॥ ६९ ॥
www.kobatirth.org
इति गाधाद्वितीयपदार्थ : ( १४४ ) ||
अथ भवतु शिष्यस्य सविनयं श्रुतग्रहणं, गुरोरपि सप्रश्रयं प्रतिपादनं, तथापि यद्येकस्मिन् कर्णे प्रविष्टं द्वितीये च निर्गतं हृदये न किमपि निविष्टं तत्र गाथोत्तरार्द्धनाह-
कहिआणुसारओ सव्वमुवगयं सुमइणा सम्मं ॥ १४४ ॥
व्याख्या – कथितानुसारतः = भणितप्रमाणेन सर्वं समस्तं सम्यक् तेन सुमतिना शोभना च= " शुश्रूषा श्रवणं चैव, ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं, तत्वज्ञानं च धीगुणाः ॥ १ ॥ " इत्यष्टगुणयुक्ता मतिः बुद्धिर्यस्य स सुमतिस्तेन सुमतिना उपगतं ज्ञातं हृदयेऽवस्थितमिति गाथार्थः ॥ १४४ ॥
ननु यदि श्रुतं ज्ञातं हृदयेऽवधारितं तथापि किं यदि भव्यलोकानां पुरतो यथोचितदेशनया न प्रकाश्यते ? तत्राह - निच्छम्मं भव्वाणं, तंपुरओ पयडिअं पयत्तेण । अकय सुकयगिदुल्लाह, - जिणवल्लह सूरिणा जेण ॥१४५॥
व्याख्या – निश्छद्म-निर्मायं भव्यानां पुरतस्तत् = जैनश्रुतं येन प्रकटितं = प्रकाशितम् । किमवहेलयैव ? नेत्याह-प्रयत्नेन = आदरेण 'कथमेते भव्यसच्चाः संसारसागरं लङ्घयित्वा निर्वृतिसौधमधिरोक्ष्यन्ती १ ' तिबुद्ध्या, येन केन ? इत्याहअकृतं सुकृतं यैस्ते अकृत-सुकृता: = निष्पुण्यास्ते च ते अङ्गिनश्च = प्राणिनः अकृतसुकृताङ्गिनस्तेषां दुर्लभ एवंविधो यो जिन
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनवल्लभ
सूरीणां
प्रपंचस्तुतिगर्भ
चरित्रादि ॥
॥ ६९ ॥