SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RCROCEX वल्लभो भगवान् श्रीजिनवल्लभमूरिस्तेन अकृतसुकृताङ्गिदुर्लभजिनवल्लभमूरिणा । अत्र च 'अकृतसुकृताङ्गिदुर्लभ' इतिविशेषणेन गुरावतिशयितस्नेहानुबन्धं ज्ञापयतीति गाथार्थः ।। १४५ ।। ननु तेन सहास्ति भवतः कश्चिदत्र सम्बन्धस्तत्र येनैवं प्रतिबन्धोऽप्यतीव महान् ? इत्याह सो मह सुहविहिसद्धम्मदायगो तित्थनायगो य गुरू । तप्पयपउमं पाविअ, जाओ जायाणुजाओ हं ॥ १४६ ॥ व्याख्या-किं ब्रूमहे ! स भगवान् मम शुभविधिसद्धर्मदायकः-शुभः प्रशस्यो विधिः-ज्ञानचारित्रादिविषयः सङ्घव्यवस्थाविषयश्च प्रकारो यस्मिन्नसौ शुभविधिः, स चासौ शोभनार्थसच्छब्दविशिष्टो धर्मश्च, असौ शुभविधिसद्धर्म: तस्य दायकः । तथा तीर्थस्य-धीरस्वामिनो नायका-तत्तुल्यतयाऽधिपतिस्तीर्थनायकः । तथा गुरुः श्रीअभयदेवसूरीणां पट्टोद्योतकत्वेन ममापि तत्पट्टोपविष्टत्वेन च । तत्पदपद्मं प्राप्य जातः-संपन्नोऽहं, जाता: समयभाषया गीतार्थास्तेषाम् अनुजातः= पश्चादुत्पन्नः, गीतार्था वा अनुयाताः अनुगताः सूत्रानुसारिक्रियाप्रवर्तकत्वेन येन स जातानुजातो जातानुयातो वा । भवत्येव हि सदाश्रयवशान्मालिन्योन्मुक्तशुक्तिकासंपुटसंटङ्काजडस्यापि मुक्तामणित्वमिति गाथार्थः ॥ १४६ ॥ ___ यत एवासौ शुद्धसद्धर्मदायकस्तीर्थनायकः प्रभावक उपकारकः संसारनिस्तारकोऽतः* तमणुदिणं दिन्नगुणं, वंदे जिणवल्लहं पहुं पयओ। सरिजिणेसरसीसो, य वायगो धम्मदेवो जो ॥१४७॥ । SACSCRIGARCALCCAL R For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy