SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir S [अथ] ज्ञात्वा तत्पार्श्वे सिद्धान्तं ततः किं कृतं तेन ? इति गाथा प्रथमपदेनाह सविणयमिह जेण सुयं, (१४४) व्याख्या-श्रुतम् आकर्णितं येन प्रभुणा । ( यदि ) स्तब्धेन प्रमादिना चेच्छूतं तदा किं तेन ? तत्राह-सविनयं= निरन्तरं गुरुमुखमीक्षमाणेन कृताञ्जलिपुटेन गुरुभावानुवर्तिना पदे पदे शिरो नमयता ' मस्तकेन वन्दे२' इति मृदुमधुरशब्देनोच्चरता च श्रुतं, न तु विकथानिद्राप्रमादोपेताचार्यप्रद्वेषकत्वान्यमनस्कत्वादिदूषणकलापकलुषिते नेति प्रथमपदार्थः(१४४) ननु भवतु सविनयं श्रवणं, परं यदाऽऽचार्यः साभिप्रायं प्रकटितशिष्यस्नेहं सोद्यम ज्ञापनबुद्ध्या ग्रन्थार्थ न प्रतिपादयति ₹ तदा तदपि निष्फलं, तत्र गाथाद्वितीयपदेनाह सप्पणयं तेहिं जस्स परिकहिअं। (१४४) ___ व्याख्या-तैरपि=श्रीअभयदेवाचार्यस्य सप्रणयं=" प्रणयः प्रेमयाञ्चयोः । विश्रम्भे प्रसरे वापि" इति ( हैमानेकार्थ. १०९०) वचनात्सप्रेम सविश्रम्भं च कथितं प्रतिपादितम् । अयमभिप्राय:-निरुपहतकारणं ह्यवश्यं स्वसाध्यं जनयति, कारणं च श्रुतलाभस्य विधिना विनय एव, ततो गुरवः प्रसन्नाः निश्शेषमप्यर्थजातं तस्मै प्रदिशन्ति, भणितं च “विणयुजुयम्मि सीसे, दिति सुयं मूरिणो किमच्छरिअं? को वा न देइ भिक्ख, किं वा सोवनिए थाले? ॥१॥ सेहम्मि दुविणीए, विणयविहाणं न किंचि आइक्खे । नहु दिजइ आहरणं, पलिउंचिअकन्न-हत्थस्स ॥ २॥" AROctik For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy