________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यस्य सर्वदेवगणेः स्तम्भतीर्थवेलाकूल-निकटवर्तिशाखिस्थलग्रामक्षेत्रभुवि स्तूपो मिथ्यादृष्टिभिरपि सप्रभावत्वेन रक्ष्यमाणः पूज्यमानो विद्यत इति गाथार्थः ॥ ८॥
अथ श्रीदेवभद्रसूरीणामत्यन्तमुपकारिणामुपकार संस्मरन् कृतघ्नत्वं निराकुवंस्तेभ्यो नमस्कारमाविश्चिकीर्षुर्गाथात्रितयमाहसूर-ससिणोऽविन समा, जेसिं ते कुणंति अस्थमणं।नक्खत्तगता मेसं,मीणं मयरंपि भुंजते॥१॥ जेसिं पसाएण मए, मरण परिवजिअं पयं परमं । निम्मलपत्तं पत्तं, सुहसत्तसमुन्नइनिमित्तं ॥२॥ तेसिं नमो पायाणं, पायाणं जेहिं रक्खिआ अम्हे । सिरिसूरिदेवभदाण सायारं दिन्नभद्दाणं ॥३॥ ___व्याख्या-तेषां श्रीसूरिदेवभद्राणां पादेभ्यो नम इति संटकः । येषां, कि? मित्याह-न समौन तुल्यौ, को ? सूरः अर्यमा शशी-चन्द्रमाः, सूरश्च शशी च सूरशशिनौ आस्तामन्ये अप्रकटोपकारिणः, इत्यपि शब्दार्थः । कथं ताभ्यां सह साम्यम् ? तत्राह-यस्मात्तौ सूरशशिनौ कुरुता विधत्तः,किम् ? 'अत्थमण'ति श्लिष्टं पदमेतत् , तत्र सूर्याचन्द्रमसोः पक्षे अस्तमयम् अस्तम् ,ते | च भगवन्तः श्रीदेवभद्राचार्याः अर्थ-वित्तविषये मनः अर्थमनस्तन्न कुर्वन्ति परित्यक्तस्वजनकनकत्वात्तेषाम् । पुनः कीदृशावेतौ ? इत्याह-क्षत्र-सदाचारं गतौ प्राप्तौ क्षत्रगतौ तादृशौ, न असदाचारावित्यर्थः, एवं नामाऽसदाचारः, येन मेषम् एडकं मीनं पृथुरोमाण मकरमपि जलजन्तुविशेषमपि भुञ्जाते, अत्यन्तमधमा एवैवं कुर्वते, इति प्रतीयमानार्थेन तयोरसाधारणोद्धावनम् ।
१ पृथुरोमाण-मत्स्यम् ।
For Private and Personal Use Only