________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चन्द्रश्चाशोकचन्द्रः तादृशश्चन्द्रः कुमुदं विकाशयति, इत्यभिप्रायेणोक्तं मनः कुमुदमिति । अशोकचन्द्रसूरेर्विशेषणमाह-श्रीजिनेश्वरसूरीणामनन्तरभाविना युगप्रवरागमेन - युगप्रधान सिद्धान्तेन जिनचन्द्रसूरिणा विधिना=आगमोक्तेन कथितानि श्रोत्रे प्रतिपादितानि सूरिमन्त्रस्य - आचार्यमत्रस्य पदानि वचनानि यस्य स युगप्रवरागमजिनचन्द्रसूरिविधिकथितरिमन्त्रपद इति गाथार्थः ॥ ७७ ॥
अथ दीक्षादायकं स्वकीयं स्मृतिगोचरमानीय प्रसादयन्नाह -
कहिअगुरु- धम्मदेवो, य धम्मदेवो गुरू उवज्झाओ। मज्झ वि तेसिं तु दुरंत दुहहरो सो लड्डु होउ ॥७८॥
व्याख्या - गुरुः- आचार्यः धर्मः - अहिंसादिलक्षणः देवश्व - अष्टादशदोपविनिर्मुक्तोऽर्छन्, ततः कथिताः- उपदिष्टा गुरुधर्मदेव येन स कथित गुरुधर्म्मदेवः, 'च' शब्दो भिन्नक्रमः पूर्वापेक्षया समुच्चयार्थः, स चाग्रेतनपदेन योज्यते, धर्मदेवश्वउपाध्यायः = उपेत्याधीयते यस्मादिति व्युत्पच्या । कीदृश उपाध्यायोऽपि ? गुरुः - मदीक्षादायकत्वेन आचार्य:, ' अपि '-'तु' शब्दयोवार्थत्वान्मम च तेषां च अशोकचन्द्रसूरीणां सकललोकविख्यातो भवतु - संपद्यताम् । कीदृशः १ दुष्टः, अन्तः = अवसानं येषां तानि दुरन्तानि तानि च तानि दुःखानि च कृच्छ्राणि च दुरन्तदुःखानि तानि हरतु लघु शीघ्रम् । द्वौ ' च 'शब्दौ दुरन्तदुःखहरत्वं प्रति तुल्यकक्षताद्योतकाविति गाथार्थः ॥ ७८ ॥
अथ तस्यैव शिष्यमनुनयन्नाह -
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir