________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धेयः । उभयोरपि साम्यमाह-कोः पृथिव्या मुत्-हर्षः कुमुदं विकाशयन् विस्तारयन् , इति सूरिपक्षे, चन्द्रपक्षे पुनः कुमुदं= कैरवं विकाशयन्-संकुचितं सत् प्रसारयन् । पुनः कीदृशः विघटितो-विश्लेषितो व्यभिचार-विसंवादम् असत्यपक्षतामिति यावत् , प्रापितः कुमतान्येव कणभक्षा-ऽक्षपाद-शाक्य-सांख्यादिकुदर्शनान्येव चक्रवाका:-कोकास्तेषां गण: संघातः कुमतचक्रवाकगणः, विघटितः कुमतचक्रवाकगणो येन स विघटितकुमतचक्रवाकगणः, इत्युभयपक्षेऽपि । यदि वा-विघटितो वियोजितः कुमतचक्रस्य कुदर्शनसमूहस्य वादगणो जल्पसमूहो येन स विघटितकुमतचक्रवादगणः, इति सूरिपक्षे । चन्द्रपक्षे चविघटितः कोः पृथिवीलोकस्य मता-रम्याकारधारित्वेन इष्टा ये चक्रवाकास्तेषां गणो येन स विघटितकुमतचक्रवाकगण इति । तथा तस्यैवासाधारणगुणस्तुतिं कुर्वन्नाह-संवेगरङ्गशाला यथार्थाभिधाना महती कथा, कीदृशी त्याह-विशालशालोपमा-विशाल विस्तीर्णः स चासौ शालश्च प्राकारो विशालशालस्तेनोपमा मादृश्यं यस्याः सा विशालशालोपमा कृता विहिता येन श्रीजिनचन्द्रसूरिणा । किमर्थ ?मित्याह-रागादिवैरिभयभीतभव्यजनरक्षणनिमित्तम्-रागादयो रागद्वेषप्रमादाविरतिमिथ्यात्वाज्ञानमद(न)दुष्टमनोवाक्कायादयस्ते च ते वैरिणश्च-शत्रवो रागादिवैरिणस्तेभ्यो भयं-साध्वसं तेन भीताःजस्ता रागादिवैरिभयभीताः, ते च ते भव्यजनाश्च मुक्तिगामिजन्तवश्च ते तथा, तेषां रक्षणंत्राणं तत्-तस्मै निमित्तं तनिमि-| त्तम् । यथा विशालशालमध्यस्थाः परचक्रचौरचरटपटलकृतकष्टाभावेन धनकनकरत्नसमृद्धाः प्रसिद्धा जना निराबाधाः प्रमोदमनुभवन्ति, एवं यां भृण्वन्तो भव्या निरन्तरं संवेगरङ्गशालमध्यपातिनो रागद्वेषप्रमादादिवैरिभिर्न क्षणमपि पराभूयन्त इत्यभिप्रायः ॥ ७२ ॥ तथा कृतशिवसुखार्थिसेवः विहितमुक्तिसाताभिलाषिपर्युपास्तिः, अभयदेवनामा श्रीयुगप्रवरगणधरः, की-13
For Private and Personal Use Only