SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गणधर सार्द्ध शतकम् । ॥ ३२ ॥ www.kobatirth.org बुद्धघुत्साहस्मृतिप्रज्ञा, - कलामानसमन्वितः । शूरो दृढव तेजस्वी, शास्त्रचक्षुश्च धार्मिकः मेदैश्चतुर्द्धा ललितं - शान्तोदात्तो- दूतैरैयम् । निश्चिन्तो धीरललितः, कलासक्तः सुखी मृदुः सामान्यगुणयुक्तश्च, धीरशान्तो द्विजादिकः । महासच्चोऽतिगम्भीरः, क्षमावानविकत्थनः स्थिरो निगूढाहङ्कारो धीरोदात्तो दृढव्रतः । दर्पमात्सर्यभूयिष्ठो, मायाछद्मपरायणः धीरोद्धतस्त्वहङ्कारी, चलवण्डो विकत्थनः । स दक्षिणः शठो धृष्टः, पूर्वां प्रत्यन्यया हृतः दक्षिणोऽस्यां सहृदयो, गूढविप्रियकृच्छठः । व्यक्ताङ्गवैकृतो धृष्टोऽनुकूलस्त्वेकनायिकः एवंरूपचतुर्विधनायकानुगते नाटके ४ । ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ 114 11 ॥ ६ ॥ For Private and Personal Use Only || 9 || " तथा 'सड्डिअदुलहराए 'ति, ऋद्ध्या = चतुरङ्गचमूरुचिनिचयविरचितचक्रवाल विशालसारतारवजेन्द्रनील - मरकत कर्केतनपद्मराग - मुक्ताफल- शशिकान्त-सूर्यकान्तादि - रत्नमणिभाण्डागारशालि - तन्दुल- गोधूम - मुद्गादिसद्धान्यकोष्ठागार निर्जितरतिरूपप्रतिरूपप्रचुरान्तःपुर सार्द्धपोडशवर्णिक सुवर्णरजतादिमहाविभूत्या वर्त्तत इति सर्द्धिकस्तादृशो दुर्लभराजो महीपतिर्यत्र तस्मिन् सर्द्धिकदुर्लभराजे, इति पत्तनपक्षे । नाटकपक्षे च-सती - शोभना उत्कृष्टा धी-र्बुद्धिर्येषां ते सद्धियस्त एव सद्धीकाः, स्वार्थे 'क' प्रत्ययः, तेषां सद्धीकानां दुर्लभो= दुष्प्रापो रागः = चेतसोऽनुबन्धो यत्र तस्मिन् सद्धीकदुर्लभरागे, धस्य ढत्वं प्राकृतत्वात् । किल ये केचन संसारविषमकान्तारपरिभ्रमण निर्विण्णाः समस्तापायविनिर्मुक्तमुक्तिसौख्याभिलाषुका निरतिचारचारित्र श्रीसमुपगूढविग्रहाः प्रतिहतकुग्रहास्तवविचारचातुरीधुरीणास्त एव तत्त्ववृच्या सुमतय इत्युच्यन्ते, तदुक्तम् Acharya Shri Kailassagarsuri Gyanmandir श्री जिनेश्वर सूरि स्तुतिः, नाटक पात्र लक्षणादि ॥ ॥ ३२ ॥
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy