SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SAIRAcribe "बुद्धेः फलं तत्वविचारणं च, देहस्य सारं व्रतधारणं च, अर्थस्य सारं तु सुपात्रदान, वाचः फलं प्रीतिकरं नराणाम् ॥१॥" ततस्तेषां सुन्दरधिषणानां चेतस्येतदेव सदैव निरर्ति जागर्ति यथा"कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युनतो-न्मीलत्पीनपयोधरेति सुमुखाम्भोजेति सुभ्ररिति । दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि, प्रत्यक्षाशुचिपुत्रिका स्त्रियमहो! मोहस्य दुश्चेष्टितम् ॥१॥ यल्लजनीयमतिगोप्यमदर्शनीय, बीभत्समुल्वणमलाविलपूतिगन्धि । तद् याचतेऽङ्गमिह कामिकृमिस्तदेवं, किं वा दुनोति न मनोभव वामता सा ॥२॥ शुक्रशोणितसम्भूतं, नवच्छिद्रं मलोल्वणम् । अस्थिशृङ्खलिकामात्र, हतयोषिच्छरीरकम् ॥३॥ धन्यास्ते वन्दनीयास्ते, तैस्त्रैलोक्यं पवित्रितम् । यैरेष भुवनक्लेशी, काममल्लो निपातितः सुखी दुःखी रङ्को नृपतिरथ निःस्वो धनपतिः, प्रभुर्दासः शत्रुः प्रियसुहृदबुद्धिविशदधीः । भ्रमत्यभ्यावृत्या चतसृषु गतिष्वेवमसुमान् , हहा ! संसारेऽस्मिन्नट इव महामोहनिहतः इत्यादिमोहनाटकं परिभावयतां सतां सुधियां कुतूहलाद्गीतनृत्यबहुलापरासमञ्जसचेष्टनाटकनिरीक्षणे प्रमादचरिते कथकारं नाम मनागपि मनः प्रादुर्वोभवीति ५। तथा 'सरसइअंकोवसोहिए'त्ति सरस्वती नाम्नी निम्नगा तस्या अङ्क: उत्सङ्गस्तेनोपशोभिते-विराजिते । यदि वा-सर- | १' अर्थस्य सारं किल पात्रदानं ' इति पाठान्तरम् । For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy