________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐARCH
रामादिसुपात्राणां सं सम्यक समुत्पन्नसामाजिकप्रतीति(क्त)देहा:-शरीराणि १।
तथा 'पउरपए 'ति, प्रचुराणिप्रभृतानि प्रतिगृहद्वारकूपिकासहस्रलिङ्गादिमहातडागवाप्यादिसद्भावेन पयांसि अ-12 म्भांसि यत्र तस्मिन् प्रचुरपयसीति अणहिलपाटकपक्षे । नाटकपक्षे च-प्रचुराणि-विस्तीर्णानि प्रलम्बानि पदानि यत्र २।
'बहुकविदूसगेय'त्ति, कवयः काव्यकर्तारः, दृष्याणि-देवाङ्गवस्त्राणि बहूनि-प्राज्यानि कविष्यकाणि यत्र तस्मिन् , यदि वा सप्तमीलोपात्-बहुकविष्यगेये, गेयंगीतमिति पत्तनपक्षे । नाटकपक्षे च-बहुकविदूषके बहब एव बहुका: अभूता विषकाः सहास्यवचनभाषिणो यत्र तथाविधे । विषकलक्षणं रुद्रटालङ्कारे यथा
" भक्तः संवृतमत्रो,-नर्मणि निपुणः शुचिः पटुर्वाग्मी । चित्रज्ञः प्रतिभावान् , तस्य भवेन्नर्मसचिवस्तु ॥१॥ त्रिविधः स पीठमर्दः, प्रथमोऽथ विटो विदूषकस्तदनु । नायकगुणयुक्तोऽथ च, तदनुचरः पीठमर्दोत्र ॥२॥ विट एकादशविद्यो, विदूषकः क्रीडनीयकप्रायः । निजगुणयुक्तोमर्षो,-हासकराकारवेषवचाः । इत्यादि नाटकशास्त्रप्रतीते, ततश्च बहुकविदूषके नाटके ३।
तथा 'सन्नायगाणुगए ' ति सन्नायकानुगते-पत्तनपक्षे सन्नायकैः शोभनप्रभुभिर्शिष्टमण्डलगृहग्रामादिस्वामिभिरनुगते संबद्धे । नाटकपक्षे च-चतुर्द्धा नायक उक्तः, तथा च तल्लक्षणशास्त्रे यथा
" नेता विनीतो मधुर,-स्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचिर्वाग्ग्मी, रूढवंशः स्थिरो युवा ॥१॥ *" दूष्यं वाससि तद्गृहे । दूषणीये च" इति हैमानेकार्थ संग्रहः (३५४ । ३७५)
MARCROSACROCOCISCLOCALCHAR
For Private and Personal Use Only