________________
Shri Mahavir Jain Aradhana Kendra
गणधर
साई
शतकम् ।
॥ ३१ ॥
www.kobatirth.org
स्थित्वा लोकश्चागमश्च तयोरनुमतं = सम्मतं यत्र, एवं यथा भवति कृत्वा नामाचार्यैः सह विचारं धर्म्मवादम् यैः कीदृशैः १ इत्याह-' विचाररहिएहिं ' विचाररहितैरिति विरोधः, अथ च विकाररहितैः = निर्विकारैरित्यर्थः । वसतौ निवासः = अवस्थानं साधूनां स्थापितः प्रतिष्ठितः, स्थापितः = स्थिरीकृतः आत्मा । वसतिव्यवस्थापनं चाणहिलपाटकेऽकारि । कीदृशे तस्मिन् ।
इत्याह- नाटक इव दशरूपक इव नाटकाख्ये । कीदृशे अणहिलपाटके ? कीदृशे च नाटके ? इत्युभयोरपि श्लिष्टं विशेपण सप्तकमाह - ' दंसिअसुपत्तसंदोहे' इति, सुपात्राणां = गौरवर्ण लम्बकर्ण - विशालभाल- विशालान्तर्वक्षःस्थल- विशालकपोलस्थल- पद्मदलाक्ष- लाक्षारसाक्त सुश्लिष्टपाद - मधुरनाद - गन्धर्वकलाविचक्षण- प्रतिदिनप्रवर्त्तितदेव गृहादिक्षणनायकनायिका लक्षणानां सन्दोहः - समूहः सुपात्रसन्दोहः, दर्शितः = चक्षुर्गोचरतां प्रापितः सुपात्रसन्दोहो येन तस्मिन् दर्शितसुपात्रसन्दोहे | यदि वा-मङ्गलघटघटिका मणिककरवकस्थालीप्रमुखाणां राजमानराजतसौवर्णवर्णाढ्य रत्नाढ्यगृह भूपण विशालस्थालकच्चो शुक्तिप्रमुखाणां चापणस्थापितानां सुपात्राणां सद्भाजनानां सन्दोह :=कूटो यत्र तस्मिन् । नाटकपक्षे च रामलक्ष्मणसीता - हनुमत् बालि - सुग्रीव - लङ्केश्वर - विभीषणादीनां सुपात्राणां सन्दोहः, स दर्शितो यत्र तादृशे । 'सुपत्तसंदेहे ' इति पाठे तु पतनपक्षे यदा ताम्बूलरसरञ्जितोष्ठाः सदनुष्ठाननिष्ठादविष्ठाः सुरङ्गनारङ्गकाधिष्ठितचरणाश्चरणाचारचारिमातिक्रान्तोत्सूत्रक्रियोपदेशनिरताः रतासक्तिप्रवृत्ता वाणिज्यकलान्तरद्रविण वितरण संयत्यादिकलत्रीकरणापत्योत्पादन परस्परपाणिग्रहणकारणादिनानाप्रकाराश्रवासमञ्जसचेष्टाविधातारः केचिद् गुरुकर्माणो दरीदृश्यन्ते तत्र ततो भवति विवेकवतां भवभीरूणां भव्यात्मनां मनस्ययं संशयः - यदुत किमस्ति कापि सत्पात्रं न वा १ इत्यत उक्तं दर्शितसुपात्र सन्देहे इति । नाटकपक्षे च
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्री
|जिनेश्वर४ सूरीणाम् ॥
*6*66% %%%
॥ ३१ ॥