SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NACSCER गुणकणमवि परिकहिउँ, न सकई स कई वि जेसिं फुडं । तेसिं जिणेसरसूरीण चरणसरणं पवज्जामि ॥ ७६ ॥ व्याख्या-तेषां जिनेश्वरसूरीणां चरणान् शरणंत्राणं, चरणाः शरणं चरणशरणमिति वा प्रपद्ये अङ्गीकरोमीति सम्बन्धः । यः कीदृशः १ तेषां श्रीवर्द्धमानाचार्याणां पदा एव-क्रमा एव पद्माः कमलानि पदपद्मास्तेषां सेवा पर्युपास्तिः पदपद्मसेवा तस्यां रसिको गाढासक्तः, किंवत् ? इत्याह-भ्रमरवत् मधुकरवत् । 'सबभमरहिओ' त्ति सर्वेषु=व्याकरण-तर्क-नाटका-लङ्कार-च्छन्दः-काव्य-ज्योतिष-वेद-पुराणादिशास्त्रेषु भ्रमो भ्रान्तिः संशयः सर्वभ्रमस्तेन रहितः त्यक्तः,अत एव स्वसमयाः= आत्मसिद्धान्ताः-दशवैकालिकावश्यकौघनियुक्तिपिण्डनियुक्त्युत्तराध्ययनदशाकल्पव्यवहाराचाराद्यङ्गैकादशककालिकश्रुतौपपा. तिकराजप्रश्नीयाद्यकालिकश्रुतसंग्रहणीक्षेत्रसमासशतकसप्ततिकाकर्मप्रकृत्यादयः,परसमया:-बौद्धसांख्यादिसिद्धान्तास्तेषां पदार्थसार्थाः, तत्र पदानि-विभक्त्यन्तानि तेषामर्थाः बाच्याः पदार्थास्तेषां सार्थाः समूहास्तेषां विस्तारणं सविस्तरप्रकाशनं तत्र समर्थः शक्तः स्वसमयपरसमयपदार्थसार्थविस्तारणसमर्थः । अस्यां गाथायामेकवचनान्तत्त्वं विशेषणेषु गुणाधिकबहुवचनयोग्यताप्राप्तावपि सामान्यापेक्षयाऽवगन्तव्यमिति ! ॥ ६४ ॥ तथा यैरित्यग्रेतनगाथायां वर्तमानं 'डमरुकमणि' न्यायेन ' अणहिल्लवाडए' इत्यस्यामपि गाथायां संवध्यते-यैः श्रीजिनेश्वराचार्यैः अणहिल्पाटके अणहिल्लपाटकाभिधाने पत्तने मध्येराजसमंराजसभाया मध्ये 'परे मध्येऽग्रेऽन्तः षष्ठ्या वा' इत्यव्ययीभावसमासः (हैम० ३-१-३०), प्रविश्य= For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy