________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
26LOCACANOCEACROCACIDIOS
व्याख्या-अथ रागद्वेषोपलक्षणप्रेमरोषयोरुपादाने एतयोरुपादानकारणं मोहोऽपि परस्परविरुद्धशास्त्रप्ररूपणकुत्सिताचरणादुत्सूत्रादिग्रहणव्यङ्गयं गृहीतमेव, तं विना तयोरसम्भवात् , तत्र च राग-रूयाद्यभिष्वङ्गलक्षणः, रोषश्च-विपक्षतत्पक्षनिर्घात नादिरौद्राध्यवसायतः खड्ग-चक्र-त्रिशूल-कोदण्डादिप्रहरणपरिग्रहानुमेयः, ततो गतौ सर्वथा क्षीणौ रागद्वेषौ समोहौ | यस्य स गतरागरोषस्तादृशो देवो यस्य स गतरागरोषदेवः, तथा चोक्तम्
"रागोऽङ्गनासंगमनानुमेयो, द्वेषो द्विषद्दारणहेतिगम्यः। मोहः कुवृत्तागमहेतुसाध्यो, नैतत् त्रयं यस्य स देवदेवः ॥१॥"
सरागद्वेषस्य च देवत्वं विवेकिनामुपहासास्पदीभृतमेव, तथा च धाराधिपतिश्रीभोजदेवमहाराज-स्वकारितेश्वरप्रासादघटितकृशाङ्गयष्टिभृङ्गिरिटिसंघटितकरपुटानगरतिव्यावर्णनप्रेरितपञ्चशतप्रमाणप्रामाणिकलब्धवर्णशिखामणि-स्वमनीषाविशेषपरीक्षितश्वेताम्बरसद्गुरुक्रमकमलोपासनाऽपास्तितसमस्तासद्दर्शन-सम्यग्दर्शनचिन्तामणि-श्रीधनपालपण्डितराजस्योपहासोक्तिद्वयं यथा"दिग्वासा यदि तत्किमस्य धनुषा ? सास्त्रस्य किं भस्मना ?, भस्माथास्य किमङ्गना ?, यदि च सा काम परिद्वेष्टि किम् । इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यन्निजस्वामिनो, भृङ्गी सान्द्रशिरावनद्धपरुषं धत्तेऽस्थिशेषं वपुः॥१॥ से एष भुवनत्रय प्रथितसंयमः शङ्करो, बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः कर, करेण परिताडयन् जयति जातहासः स्मरः ॥२॥" १ ‘स एषः' इदं पृथ्वीछन्दः तलक्षणम्-" जसौ जसयला वसुग्रहपतिश्च पृथ्वीगुरुः" इतिवृत्तरत्ना० वर्णः ॥ ९१ ॥
For Private and Personal use only