________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधरसादेशतकम् ।
॥२८॥
| काचार्य| दृष्टान्तः॥ भव्याभव्यलक्षणं च ।
वचनप्रामाण्यादेतस्यापि प्रशंसामात्रमुचितमेव वन्दनं तु नोचितम् , अत एव 'सीलंको' इति सामान्यनाममात्रोच्चारणपूर्वकं 'सहई' एतावन्मात्रमेवोक्तं प्रकरणकारेण न तु वन्दे, इत्यादीति गाथार्थः ।। ६० ।।
अथ श्रीहरिभद्राचार्यानन्तरान् गणधारिणः प्रणिपतन्नाहतयणंतर दुत्तरभव,-समुहमजंतभवसत्ताणं। पोयाण व सूरीणं, जुगपवराणं पणिवयामि ॥ ६१॥
व्याख्या-'तयणंतरत्ति, अनुस्वारलोपः प्राकृतत्वात , तदनन्तरं हरिभद्राचार्यादनन्तरं दुस्तर:-तरीतुमशक्यो यो भव- समुद्रः-हरिभद्राचार्यादनन्तरं दुस्तर:-तरीतुमशक्यो यो भवसमुद्रः संसारसागरस्तत्र मजन्तश्च ब्रुडन्तश्च ते भव्यसवाश्च ते दुस्तरभवसमुद्रमजद्भव्यसवाः । भव्यानां चेदं स्वरूपं तत्प्रसङ्गादभव्यानां च
"भवा जिणेहिं भणिया, जे खलु इह मुत्तिगमणजोग्गा उ । ते पुण अणाइपरिणामभावओ हुंति विन्नेया ॥१॥ विवरीया उ अभवा, न कयाइ भवन्नवस्स जे पारं । गच्छिसु जंति अ तहा, अणाइपरिणामओ चेव ॥२॥"
तेषां सम्बन्धिनः पोतानिव-यानपात्राणीव 'ब' शब्दस्योपमानार्थत्वात् , सूरीन् आचार्यान् , कीदृशान् ? युगप्रवरान्= युगप्रधानान् प्रणिपतामीति क्रियासम्बन्धः कृत एवेति सर्वत्र द्वितीयार्थे षष्ठी प्राकृतत्वादिति गाथार्थः ।। ६१ ।। ___ अथ कस्कोऽसौ युगप्रवरः ? इति तन्नामनिर्देशं विदधान आहगयराग(दो)सदेवो, देवायरिओ य नेमिचंदगुरू। उज्जोयणसूरी गुरु,-गुणोहगुरुपारतंतगओ ॥६२॥
CA4
C
For Private and Personal Use Only