________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
या
दीपा०
॥४४॥
प्रकाशय इति । तेनोक्तम् भोमंत्रिन् ! श्वः अमावास्यानन्तरं मघो वर्षिष्यति यस्तु तज्जलं पास्यति स सर्व एव लोको पहिलो भविष्यति ततः कियत्यपि काले गते सुवृष्टिभविष्यति तदा सर्वे लोकाः पुनः स्वस्थाः भविष्यन्ति अतः सर्वैरेव नगरनिवासिभिस्तद् | वृष्टिजलं न पेयमिति श्रुत्वा मंत्री जातविस्मयो नृपसमीपमागत्य सर्वमाचख्यौ । राजा
च तदाकर्ण्य पटहताडनया वारिसंग्रहार्थं श्वो भाविन वृष्टेजलं पानादिषु न ग्रहणार्थ - | समाज्ञापयत् । ततः सर्व एव तस्यां निशायां जलसंग्रहं चक्रुः श्वस्तु महीयान् जल-17 दो ववर्ष परं केऽपि राजाज्ञया तज्जलं न पपुः । किन्तु बहुपु दिनेषु व्यतीतेषु संगृहीतं जळं निश्शेषमभवत्, अतस्तामाज्ञां विगणय्य मृडैनंगरनिवासिभिर्वहुभिः राजपुरुषैश्च तदृष्टिजल| मेव पीतं ततस्तेन पीतमात्रेणैव सर्व उन्मत्ता बभूवुः । किन्तु राज्ञा मंत्रिणा च तज्जलं न | पीतमतस्तावेव सर्व स्मिन्नगरे स्वस्थावास्ताम् । अथ च पीतजलास्सामन्तादयो
॥४४|
For Private and Personal Use Only