________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूजयति स्म श्रीमहावीरवास्मै प्रत्यक्षदर्शनं ददाति स्म । अथैकदा स भूपालः प्रसन्नमना प्रादुर्भूतं श्री महावीरं त्रिःप्रदक्षिणीकृत्य बद्धांजलिरेवं पप्रच्छ हे परमेश्वर ! | वीतराग ! मया अद्य रात्रौ गज, ( १ ) कपि, ( २ ) क्षीरदुम. (३) काक, ( ४ ) सिंह, (५) कमळ, (६) बजि, (७) कुंम्भानि ( ८ ) क्रमश अष्टवस्तूनि स्व दृष्टानि अतो भगवन् तेषां फलं प्रकाशय किं भविष्यति ? श्रीमहावीरस्तच्छुत्वावाच राजन् श्रृणु यत्त्वया स्वप्ने गजो दृष्टस्तत्फलमिदम् । यत्कौ हस्तितुल्याः श्रावकाः | मदोन्मत्ताः सन्तः दुःखागारे गृहे एव निवसिष्यन्ति न प्रत्रजिष्यन्ति न च दीक्षां गृहीष्यन्ति । एके च गृहीतामपि दीक्षां कुसंसर्गतस्त्यक्ष्यन्ति केऽपि सुश्रावकाः विरला एव दीक्षां पालयिष्यन्ति । इति गजफलम् ॥ १ ॥ कपिफलं शृणु, केचन कपितुल्यचञ्चलस्वभावा अल्पसत्या आचार्यसम्मुखे चापल्यं करिष्यति धर्मस्थानतपोधनांच
For Private and Personal Use Only