SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हे प्रिये ! इति तु सर्वमेव तवोक्तं तथ्यं परं तु कुलक्रमादागतं जिनधर्म धार्मिकाणां वंशोद्भवोहं कथंत्यक्ष्ये ? हे हरिणाक्षि ! इमां सकलां पृथ्वी कोशं गजावादींश्च यथेच्छं त्वं यं गृहाण परं येन न सौख्यं न च धर्मस्तकृत्यं मां मा कारय ! इति श्रुत्वा ईषद्विहस्य | कोमलवाण्या सा पुनः प्रोवाच । हे राजन! भवद्विधानां धर्ममेव सर्वस्वं मन्यमानानां नृपाणां स्ववचनपरिपालनमेव सद्वतं यतो येन स्वप्रतिज्ञा नातिवाहिता स सकलधर्मप्रतिपालकोपि ह्यशुचिस्तस्य भारादियं भूमिः नितरां विषीदति हेस्वामिन ! यदि भवतेदमपि | तुच्छकार्य न सम्पादितं चेत् राज्यादिदानं कथं सम्भाव्यते । त्वदर्थमेव मया गन्धर्वाधिपत्यं त्यक्तं तर्हि मर्त्यलोकराज्यस्तव कियान् ? अथ च यदि व्रत| भंगकर्तुं त्वं न शक्नोसि चेन्मत्पुरत इदं जिनप्रासादमेव पातय इति तद्वचनश्रवण मात्रेणैव नृपो वक्षाहत इव मृच्छां प्राप्य गतचेतनस्सन भुवि पपात । किन्तु मन्त्रिण For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy