SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टा० व्याः ३८॥ आदेशात्पार्श्वरक्षकैः परिचारकजनैः शीतलजलादिसंसेकात् पुनरुत्थापितः । अथ सूर्ययशो नृपश्चेतनां प्राप्य स्वपुरः स्थितां स्त्रियं विलोक्य तदाचरणकुपितो पुनः प्रोवाच । हे अधमे ! मच्छम्मुखाद्याहि यतस्तव वचनोद्गारः सर्पविषवन्मां खिद्यते त्वं विद्याधरपुत्री न अपि तु चांडालवंशजा प्रतिभासि | अहो ! मौरान्मया मणिभ्रमेण काचखंडमानीतं, रे मूढे ! यस्त्रैलोक्यनाथो जगदन्दितः प्रभुर्जिनस्तस्य प्रासादभङ्गसदृशं महानपराधं को नाम नरपशुर्विदध्यात् ? अतः पुनरपि इयमेव ममाभ्यर्थनास्ति यत्त्वं मामनृणं कर्तुं धर्मलोपंविना अन्यद्यथेच्छं याचस्व, किन्तु पर्वलोपचैत्यविधसादीन्यनाणि कदापि न विधास्ये तच्छुत्वा सा उर्वशी ईपद्विहस्य पुनस्तमुवाच राजन् ! मा रोषमावह यदि वं चैत्यभङ्गमपि नाङ्गीकरोषि चेत् स्वपुत्रस्य शिरः स्वयं स्वहस्तेन छित्वा सद्यो मह्यं देहि । इत्याकर्ण्य || | राजा विमृश्य वदति स्म-हे सुलोचने ! पुत्रशिरसा किं ? पुत्रस्तु मत्त एव जातः अतो For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy