________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिनस्वभावे ! अधमे ! इयं तव बाणी मनागपि विद्या घरकुलाचारोचिता न दृश्यते तव | सकलं चातुर्यं धिक, रूपं वयः कुलञ्च धिक्, येन तपोजिन पूजादिकं सद्धर्मकृत्यं निन्दसि, अयि मूढे ! मनुष्यत्वस दूपारोग्यराज्यादीनि तु तपसैव प्राप्यन्ते तत्तप कः कृतज्ञो नाराधयेत् ? यश्च तपः नाराधयेत् स कृतघ्न एव, धर्मारानतो देहस्य विडंबनं कथं ? धर्ममन्तरा केवलं विषयभोगादिव विडम्बनम् तस्माद्धर्म एवानुष्ठेयः अयं तु मानवो देहस्तस्य तु धर्म एव प्रधानः कर्तव्यः यतो मृगसिंहादयो पशव अपि अष्टम्यां पाक्षिके चाहारं न गृण्हन्ति । तर्ह्यहं कथं तं धर्मं त्यक्ष्ये । तान् वृथा मानुषदेहधारिणो | नरपशून् धिक्, ये सर्वधर्मकारणभूतमिमं पर्वाराधनं न कुर्वन्ति । श्रीयुगादिनिनोपदिष्टमिदमुत्तमं पर्व वर्तते तदहं तपो विना कंठगतप्राणैरपि वृथा न कुर्वे । हे भामिनि ! ममेदं राज्यमद्यैव प्राणक्षयश्चास्तु परं पर्वतपसस्तु भ्रष्टः कदापि न भविष्ये ! इत्यादि क्रोधाकुलनृपस्य
For Private and Personal Use Only