________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टा०
घटिता इव निश्चलनेत्रा बभूवुः । अस्मिन्नेवावसरे सूर्ययशो नृपः चतुरंगिण्या सेनया परिपतो मार्गे गच्छन् तदडुतं गानं श्रुत्वा विस्मयाविष्टः सन् तत्रैव क्षणमात्र तस्थौ । यतो सेनायाः बाजिगजादयोऽपि तद्गानश्रवणात् पदमात्रमपि प्रसर्पितु मसमर्था श बभूवुः । स नृपोऽपि एवं विधमदृष्टवमाश्चर्यं विलोक्यामात्यप्रति सादरमुवाच, भो मंत्रिन् ! संसारे गानतुल्यः किमपि श्रवणसुखदं वस्तु न विद्यते | यच्छ्रवणादिमे पशवोपि ईदृग्विमोहिताश्चित्रलिखिता इव तिष्ठन्ति, गानेन देवदानवनृपकाकी मियादयोऽपि वशीभवन्ति किमुतान्याः मानुष्यः, ? अतो वयमपि अस्मिनृषभदेवचैत्य ।
देवं नमस्कतु यामस्तत्र च गत्तास्याः सुन्दर्याः गानं शृण्म इति मन्त्रिणमामंत्र्य तद्गानमूर्च्छनादिमोहितो महीपालः मन्त्रिणा सह तस्मिन् जिनचैत्यान्तरे जगाम । अथ च तत्र हस्तयोर्वीणां निम्रत्यौ गीतध्वनि कुर्वत्यौ कामभार्ये इव रूपलावण्ययुक्ते कुमारि-
॥३४॥
For Private and Personal Use Only