________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टार
व्या०
| रूपपातकं दास्ये एवं विवदमानयास्तयोस्तस्याः पित्रादयः समागत्य तेऽपि तस्य मुने | रम्यर्थनां चक्रुः । स साधुश्च एतेषां महानाग्रहं विलोक्य व्रतारंभकनिषेधका तामाकाश| वाणी स्मृत्वा तद्भोग्यकर्मोदयादृणमोक्षामिव कर्तुं तां श्रीमती पर्यणेषीत् । अथ कियता | कालेन श्रीमत्या सह नानाभोगान् भुंजानस्य तस्य क्रमेण पुत्रः संजातः
स च शैशवे वर्द्धमानो ऋषिकुमारः बालशुक इव वक्तुमुल्लसजिव्हो बभूव । एव मतिक्रान्ते | कियति काले स आईककुमारः गृहस्थफलभूतं पुत्रं विलोक्य हर्षितस्सन् श्रीमती प्रोवाच | " हे भद्रे ! अतः परं ते पुत्रः सहायोस्तु अहं प्रव्रजामि" इति भर्तृवचः श्रुत्वा विषण्णवदना | श्रीमती सुतं प्रत्यवसरं ज्ञापयितुं तूलपूणिका सहितं तर्कुमादाय समुपाविशत्, एतस्मिन्नेवा| वसरे ऋषिकुमारवालोचितां क्रीडां कुर्वन् गृहे समागत्य स्वकीयां मातरं तूलकर्तनक्रियां || कुर्वाणां विलोक्य जातविस्मयः पप्रच्छ “ हे अम्ब ! एतद्दीनजनोचितं कर्म किं प्रारब्धं
।॥ २९॥
.
For Private and Personal Use Only