________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| सा तच्छुत्वा प्रोचे ! " हे पुत्र तवपिता त्वां मां च त्यक्त्वा प्रव्रज्यार्थं गन्तुमना वर्तते || अतः गते च तस्मिन् पतिहीनाया मे एतत्तकैरेव शरणं" इति श्रुत्वा स बालको मन्मनाक्षरै|| रुवाच हे अंब ! मा खेदमावह स कुत्र गमिष्यति अहं तं बध्वा रोत्स्ये कथं यास्यतीत्युक्त्वा !
तर्कसूत्रमादाय झटिति पितुः समीपमागत्य सूत्रेण तत्पादावेष्टयत् मुखेन च मातरमेवं | जगाद मातः मा भैषीः असौ मया तथा बद्धोस्ति यथा कथमपि न यास्यति । आईकुमारस्तस्य बालस्यैतादृशं चाञ्चल्यं दृष्ट्वा मधुरां वाचं चाकये जातस्नेहः पुलकिताङ्गो गद्गदवाण्या तमुवाच हे पुत्र! यावद्भिस्तन्तुभिस्त्वया मे पादौ बद्धौ तावत्येव वर्षाणि पुनर्गृहे तिष्ठामि अतस्तन्तून् गणयित्वा बंधनानि मोचय, ततो गगिता द्वादशबंधा अभवन् तेन | || स द्वादशवर्षाणि पुनर्गार्हस्थ्यमत्यवाहयत् । अथातिक्रान्ते प्रतिज्ञाकाले स वैराग्यपूर्णमानसो
आर्दकुमारः रात्रेः पश्चिमे प्रहरे एवमचिन्तयत् अहो मया प्राग्भवे मनसैव व्रतं भग्नं तेनाह
For Private and Personal Use Only