SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - अष्टा० व्या ॥२८॥ अथ कालान्तरे देवदत्तश्रेष्ठी स्वकन्यकाविवाहार्थं योग्यं वरमचिन्तयत् कन्यका च तदाकर्ण्य पितुः समीपमागत्य प्रोवाच 'भो तात ! मया तु देवमन्दिरसमीपे तपः कुर्वाणो यो महर्षिस्तस्मिन दिने वृतः स एव मम वरः नान्यस्य कस्यचिदपि तमृते पाणिग्रहणं विधास्ये यतस्त्वयापि तदृष्टिधनग्रहणसमयेऽनुमोदित अतो मामन्यस्मै दातुं नार्हसि | उक्तं च । “ सकृजल्पन्ति राजानः सकृजल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते त्रीण्ये. तानि सकृत् सकृत् ।" इति कन्यावचः समाकर्ण्य श्रेष्ठी तामूचे, हे पुत्रिके ! तत्तु मयापि | स्मृतं परं स तु स्वच्छन्दगतिविरक्तो यति रस्ति अतो नैकत्रावतिष्ठते अतस्तस्य प्राप्तिस्तु दुष्करा, न जाने इतः कुत्र गतः पुनरायास्यति न वा आयास्यति चेदपि कयं ज्ञास्यति | तस्य मनेप्सितं, यत्तस्य गृहस्थेच्छा वर्त्तते आहोश्विन्नोति । श्रीमत्योक्तं ।--हे तात! मया | । तदिनगर्जितभीतया तच्चरणे लग्नया अभिज्ञानं दृष्टं तस्मादतः परमेवं विधातव्यम् यत् ॥ २८॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy