________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रागत्य श्रेणिकप्रहितं प्राभृतं कुशलवृत्तकथनपूर्वकं राज्ञे प्रयच्छत् । ताञ्च मञ्जूषां | राजकुमारसन्देशकथनपूर्वकां तस्मै आर्दककुमाराय प्रादात् ततस्तच्छुत्वाककुमारस्तक
थनानुसारेणेकान्ते तां नीत्वा मंजूषामुद्घाटयामास। अथ तस्यां तमस्युद्योतकारिणी | रत्नमयी राजकुमारपहितां तां ऋषभदेवप्रतिपां दृष्ट्वा सचेतस्यचिन्तयत् । अहो ! किमिदं किञ्चिदनुपमं देहाभरणमिदं प्रतिभाति तर्तिक मूर्षि आरोपं यद्रा क ण्ठे हृद| यदेशे च धार्यम् । अन्यत्र वा कुत्रचिदारोप्यम् कापीदं तु दृष्टपूर्वमिव मां प्रतिभासते परं स्मृतिपथं नैवायाति कुत्र कदा दृष्टमिति । इत्यमत्यर्थ चिन्तयानस्य राजकुमारस्य | जातिस्मरणजनिता मूर्छा समजनिष्ट, ततो मुहूर्तमात्रेणैवोत्पन्नजातिस्मरणः स कुमारश्चेतनां प्राप्य स्वयमेव निजपूर्वभवकथां चिन्तयामास । तथा हि । इतो भवात् तृतीयभवे अहं वसन्तपुरनामनगराधिवासी सामठको नाम कुलम्बी अभृवं बन्धुमती |
For Private and Personal Use Only