________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टा०
व्या०
|| नाम्नी च मम भार्यासीत् । एकदा रहसि स्थितायास्तस्था मुखादहमहद्धर्ममशृण्वं
तेन श्रुतमात्रेणैव प्रतिबुद्धः संजातवैराग्योहं तस्याः सकाशादेव दीक्षां प्रगृह्य वनमगमम् । सा बन्धुमती अपि अन्याभिस्ताधीभिस्सह प्रव्रज्य मदन्वेवागतवती । परं बहुकालं यावत् गुरुणा सह विहरमागेन मया सा न विलोकिता । अर्थकदा अकस्मादेव तस्योपरि मम दृष्टिः पतिता । अतस्तद्विलोकनादेव पूर्वानुरागं स्मरन् तस्यामनुरक्तो अभूवं तबाहमन्यस्मै साधवेऽकथयं । सचान्यस्मै मदीयामिमां वार्ता कथयामास | स च तस्याः प्रतिवर्तिनी नाम सख्यै आचख्यो सा प्रतिवर्तिनी तत्सर्वं बन्धुमत्यै अकथयत् । सा बन्धुमती च तदाकर्ण्य विषण्णवदना सती स्वसखी प्रत्यूचे । अहो एष मत्पतितिार्थोपि मर्यादामुलंघयति अतः का गतिः स्यात् । यदयमवश्यमेव मो. | हान्मां देशान्तरगतामपि न त्यक्ष्यति अतोरावयोव्रतभङ्गस्यादतोहं निश्चितं मरणं प्रपत्स्ये |
For Private and Personal Use Only