________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्चौरस्यातिवाहितेषु दिनचतुष्ठयेषु पञ्चमदिने सा दुर्भगा राज्ञी राज्ञः समीपमागत्यो वाच स्वामिन् ! मम दुर्भगाया उपरि भवदीया एतादृशी कृपा नास्ति तेन मया कदापि भवन्तो न याचिता अधुनास्य चौरस्य प्राणदानं मया याच्यते । राजा तदीनवचः श्रुत्वा कृपया तं चौरं तस्यै प्रादात् । अनया च तं चौरं स्वगृहे आनीय सामान्यभोज्येन भोजयित्वा कश्रितं मया तुभ्यं जीवनं प्रदत्तमतः पुनश्चौर्यं मा कार्षीः इदानीं स्वगृह गच्छेत्युक्त्वा मुमोच । चौरोपि तां बहुमानयानः स्वगृहमगच्छत् अस्यैतादृशी लीलां दृष्ट्वा | सपत्नीभिस्तासूयं हसितं उक्तञ्च नास्य त्वया किञ्चित्सुखकारि कृतं इति तासां परस्परं | बहूपकारविषये बिवादे जाते राज्ञा स एव चौर समाहूय पृष्टः । अहो आसु पञ्चसु कया तव |बहूपकारः कृत इति ब्रूहि तच्छुत्वा चौरेणोक्तं भो महाराज ! चतुरो दिनान्यावन्मया | मरणभयभीतन आभिः राज्ञीभिः प्रदत्तमपि स्नानपानादिकं नाज्ञायि अद्य |
For Private and Personal Use Only