________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ अष्टाहिकाव्याख्यानं लिख्यते । शान्तीशं शान्तिकर्तारं नत्या स्मृत्वा च मानसे । K: अष्टाहिकाया व्याख्यानं लिख्यते गद्यबन्धतः ॥ १॥ इह च सकलदुष्कृतवारिणि विमल
॥ धर्मकारिणि इह परत्र च कृतप्रभूतशर्मणि धीपर्युषणादि पर्वणि समागते सति सकलसुरा. | सुरेन्द्रः संभूय श्रीनन्दीश्वरनाम्नि अष्टमद्वीपे धर्ममाहमानं कर्तुं गच्छति तत्र तावन्नन्दीश्वर| द्वीपस्य मध्यभागे चतुर्दिक्षु चत्वारोञ्जनगिरयः सन्ति । अञ्जनवर्णाः पर्वता इत्यर्थः ।
तेषां प्रत्येकं चतुर्दिक्षु चतस्रो वाप्यः सन्ति, तासां वापीनां मध्यभागेषु दधिमुखाख्याः | पर्वतास्सन्ति । दधिवर्णाः स्वेताः इत्यर्थः। पुनईयोईयोप्यो रन्तरेषु द्वद्रो रतिकरपर्वतो | वर्तते । रक्तवर्णावित्यर्थः । एवं चैककाअनगिरेः समन्तात् चत्वारो दधिमुखा अष्टौ च रतिकरास्सन्ति । संमोलने. द्वादश त्रयोदेशश्च स्वयमअनगिरिः इत्यं चतुर्दिक्षु चतुर्णामञ्जन गिरीणां सपरिकराणां मलिनेजाता द्विपञ्चाशद्गिरयः । ते च पृथङ्नाम संख्यया
For Private and Personal Use Only