________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलमलिन वपुषः साधून् दृष्ट्वा जुगुप्साकरणं विचिकित्सेति । मिथ्यादृष्टीनां प्रशंसा | करणं कुलिंगीप्रशंसा ४ मिथ्यादृष्टिभिस्सह परिचयः कुलिंगी संस्तवः ५
अथ द्वादशवतानां षडतीचारा उच्यन्ते । तत्र प्रथमं स्थूलप्राणातिपातविरमणव्रते | पञ्चातीचारा स्तद्यथा । निर्दयतया कशादिभिः पश्वादिताडनं वधः १ रज्वादिभिस्तान गाढं | बन्धनं बंधः। २ शस्त्रादिना तेषां कर्णवृषणादिच्छेदनम् छविच्छेदः, छविः शरीरं तस्य छेदः | इति व्युत्पत्तेः ३ गोवृषभादीनां स्कन्धे सामर्थ्यातिरिक्तभारारोपणमतिभारः ४ चवर्णवेलासु | वृषभादिभ्यो अन्नजलघासायदानं भक्तपानव्यवच्छेदः ५ ___ अथ द्वितीये स्थूलमृषावाद विरमणबते पञ्चातीचारास्तद्यथा । " त्वं चौरस्त्वं जार" | | इति परं प्रति अविचार्य भाषणं सहसाभ्याख्यानम् १ एकान्तेस्थितान कानपि विलोक्य एते राजविरुद्धं चिन्तयन्तीति प्रकाशनम् रहोभ्याख्यानम् २ विश्वासिभिः स्वदारमित्रबन्धु
For Private and Personal Use Only