________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चातु०
॥१६॥
| भिर्यत्प्रच्छन्नं कथितं तदन्येषामग्रे प्रकाशनं स्वदारमन्त्रभेदः ३ कष्टेन पतितस्य कस्यचित | पृच्छतो अलीकमीदृशं वदेरित्यादि शिक्षगं मृषोपदेशः ४ कूटलेखश्च प्रतीतः ५ इति ।
अथ स्थूल अदत्तादान विरमणव्रते पञ्चातीचारास्तद्यथा । चौराहतवस्तुग्रहणं स्तेनाहृतम् | १ चौराणां संवलादिदानेन साहाय्यकरणं स्तेनप्रयोगः २ घृतादौ तादृशवस्तुनो वसादेस्सम्मेलनम् तत्प्रतिरूपक्षेपः ३ विरोधि राज्ये द्रव्यलाभाय वस्तुविक्रयार्थगमनं विरुद्ध गमनम् | ४ लोकप्रसिद्धतुलामानयोन्यूनाधिककरणं कूटतुला कूटमानम् ५ इति ।
अथस्थूलमैथुन विरमणवो पञ्चातीचाराः यथा । वंश्यायां विधवायां कन्यायां वा गमन अपरिग्रहागमनम् १ भाटकदानेन स्तोककालं यावत् आत्मीयकृतायां गमनं इत्वरीगमनम् २ अंगं स्त्रीपुरुष चिन्हं तदन्यानि अनंगादीनि कुचोवदनादीनि तेषु रमणं अनंगक्रीडा ३ स्वापत्यानामिवान्यापत्यानां परिणायनम् परविवाहकरणं ४ कामभोगेषु ||"
For Private and Personal Use Only