________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीनां विक्रयः केशवाणिज्यम् १० तिलेश्वादीनां यन्त्रपीडनम् पीडनकर्म १९ वृषभादीनां वृषण कर्णादिच्छेदनं लाञ्छनकर्म १२ क्षेत्रादौ वन्हेज्वलनम् दवदानं १३ गोधूम कर्कट्यादीनां कर्षणार्थं सरो -हदादि शोषणं शोषणकर्म १४ असत्यो दुश्चरित्राः दास्यादयस्तासां पालनमसती पोषणम् १५ इति ।
अथ ज्ञानस्याष्टावतीचाराः । तद्यथा । अकालवेलायां निषिद्धदिने वा श्रुताध्ययनम् १ गुरोर्ज्ञानस्य ज्ञानोपकरणानां पुस्तकादीनां वा पादादि संघट्टने नावमानो २ तथा एतेषामेव सम्मानादित्यागः ३ उपधान योगादिविना श्रुताध्ययनम् ४ यस्य मुखाच्छुतमधीतं तस्य गुरोर्नाम उपलपनम् ५ देववन्दनप्रतिक्रमणादौ शुद्धाक्षराणामपठनम् ६ तत्रैव शुद्धार्थापठनम् ७ तत्रैवाशुद्धयोः सुत्रार्थयोः पठनम् ८ इति ।
दर्शनस्याष्टो अतीचारास्तथाहि । देवगुरुधर्मविषये शङ्काकरणम् १ सर्वाण्येव
For Private and Personal Use Only