________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शंसा ५ संलेखनं कृत्वा यद्येवं चिन्तयति तदातीचाराः एव च यदि कोपि कालत्रय सम्बंधी अतीचारोलग्रो भवेत्तदा तस्य मे मिथ्या दुष्कृतमिति संघादिसमक्षं वाच्यम् । एवमग्रेपि बोध्यम् । अथ पञ्चदश कर्मा दानातिचारा यथा । आजीविकादि निमित्तम् काष्टदहनेनाङ्गारादिकरणं तद्विक्रयणम् इष्टकादि पाचनमित्यादि अंगारकर्म १ विक्रयार्थं वृक्षादेः | पुष्पादिच्छेदनम् वनकर्म २ शकटानां तदङ्गानि च निष्पादनं शकटकर्म ३ शकटवृषभादीनां भाटकेन जीवनं भाटककर्म ४ हल कुद्दालादिमिर्भूमिविदारणं, पाषाणादि घटनं यवादि धान्यानां सत्त्वादिकरणं स्फोटककर्म ५ प्रथमत एव म्लेच्छादिभ्यो मूल्यदानेन गजदन्तादिकमानाय्य विक्रयणं यद्वा स्वयमानीय विक्रयो दन्तवाणिज्यं ६ लाक्षानीलीमनः शिलादीनां विक्रयो लाक्षा वाणिज्यम् ७ मद्यमांसघृतादीनां विक्रयो रसवाणिज्यम् ८ यस्य भक्षणात् प्राणधारी म्रियते तद्वियं तस्य विक्रयो विषवाणिज्यम् ९ द्विपदचतुष्पदा
For Private and Personal Use Only