________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥८
॥
णेनैव सद्यो मृताः । तदहुकीटिकामरणं दृष्ट्वा पापभीरुस्साधुर्जीवदयां चिन्तयन् अस्य शाकस्य गंधेन मा कोपिजीवधारी मृत्यु भाग्भवत्विति वुध्या स्वयमेव तत्सर्वं शाकं भक्षि-| तवान् ततः सद्यो मृत्वा सद्गतिं प्राप्तः इति निष्पापाचरणे धर्मरुचिदृष्टांतः ॥ ६ ॥ ___ अथ पापत्यागेन यद्वस्तुतत्वज्ञानं तत्र इलाघुत्रदृष्टांतो यथा इलानगरे धनदत्तश्रेष्ठी तस्य इलादेवीसेवनात् इलापुत्रो जातः स चैकदा तत्रागतानां विदेशीयनटानां नृत्यं पश्यन | अतिसुंदररूपां काचन नर्त्तकपुत्रीं विलोक्य प्राग्भवस्नेहात्तस्यामत्यंतानुरक्तो बभूव । ततः | गृहमागत्य पितरं प्रति उवाच भोतात ! मांप्रतितामेव नर्तकपुत्री परिणय नोचेन्मरणं शर| णीकरिष्ये परमपरकन्यापाणिग्रहणं सर्वथा न विधास्यति पितातस्यात्याग्रहविज्ञाय कथमपि | निषेध्दुमशक्नुवता वृद्धनटसमीपं गत्वा तत्पुत्री मार्गिता नटेनोक्तं यद्यस्मत्कलां शिक्षयित्वा | बहुधनमेकीकृत्य अस्मदज्ञातिं पोषयेत् तर्हि अस्मतपुत्र्याः पाणिग्रहणं कुर्यात् ||
For Private and Personal Use Only