________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृहस्पतिः कथयति स्त्रीषु विश्वासो नविधेय इति नीतिशास्त्रसिद्धान्तः । पञ्चालपण्डितो ब्रूते । स्त्रीषु मृदुत्ता धार्येति कामशास्त्ररहस्यम् । एवं स्तोका क्षरेव्हर्थकथनं द्वादशाङ्गी रूपं संक्षेपेण सामायिकं बोध्यम् ॥ ५ ॥
अथ निष्पापाचरणे धर्मरुचि साधु दृष्टान्तो यथा । धर्मघोषाचार्यस्य शिष्यो धर्मरुचिनाम | साधुर्नगरे भिक्षार्थं भ्रमन् रोहिण्याख्यायाः ब्राह्मण्याः गृहं प्रविष्टस्तया च भ्रान्त्या निष्पादितं विषप्रायं विज्ञाय दुष्ट बुध्यासाधवेदत्तं साधुना सरलस्वभावेन तद्गृहीत्वा स्वस्थाने आगत्य | गुरुभ्यो दर्शितं गुरुभिस्तदृष्ट्वा कटुकटुंबिकाशाकं प्रोक्तं भो महाभाग ! इदं | शाकं विषप्रायमस्ति अतः कस्मिश्चिन्निनुजस्थाने गत्वा ग्रामाद्वहिः स्थंडिले स्थापयतु भवान् । धर्मरुः स्तथेत्युक्त्वागुर्वाज्ञया निखद्य भूमो गत्वा यावत्तत्शाकं स्थापयतुं लग्न स्तावत्तन्मध्यायतिते कस्मिंश्चिद्विन्दौ गन्धाकृष्टाः वव्हयः कीटिकाः संमिलितास्तद्गंधग्रह
For Private and Personal Use Only