________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रेष्टिना तद्वचः श्रुत्वा इलापुत्र समीपमागत्य नटोक्तमभिप्रामं प्रोक्तम् इलापुत्रस्तदप्यंगीकृत्य | हठेन गृहान्निर्गतः नटेषु मिलितः ततः । कियता कालेन तेषां सर्व कलासु निपुणोभूत्वा वेनातटनामनगरं प्राप्तस्तत्र राज्ञे स्वकलादर्शनाय स्वयं वंशमारुह्य रमते स्म । अथ तद्देशाधिपतिस्तत्पार्श्वस्थां तामेव सुन्दरीं विलोक्य चलितचित्तः सन ह्यचिन्तयत्अहो सुन्दरीयं नट भार्या यथेष इलापुत्रो वंशानिपत्य म्रियते चेदेतामहं गृण्हीयाम् । एवं चिन्तयति नृपे इलापुत्रः सर्वा एव कलाः कृत्वा वंशादुत्तीर्य पारितोषिकादाने|च्छया नृपमभिवाद्य द्रव्यमयाचत । नृपस्तु तदाकोवाच, यव्यग्रचित्तेन मया | सम्यक् कला न दृष्टा अतः पुनरेव नृत्यादिकं विधीयताम् । इति राजाज्ञा श्रुत्वा पुनस्तत्सर्वं नृत्यमकरोत् किन्तु तस्य मरणमेवेच्छता राज्ञा पुनरपि तथैवोक्तम् नटस्तृतीय वारं वंशमारुह्य रमते स्म । तस्मिन्नेवावसरे कस्यचिद्भाग्यवतः श्रेष्ठिनः गृहे एकः साधु
For Private and Personal Use Only